पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 133, कुल 330 में से
संदर्भ में पढ़ेंमाधवो मन्त्रिविशेषो वसन्तश्च सोनुगो यस्य स दुर्लभराजोस्यातु- जोभूत् (l.6) येन नारीणां चेतसि न मदनायितं काक्का मदनायितमेव बभूवे- त्यर्थः . मदस्य नायितं नीय(l.7)मानस्य प्रयोजनम् . णीचो णिजन्तान्नं- पुंसके भावे क्तः . नारीणां स्त्रीणां चेतसि मदनायि(l.8)तं कामवदाचरितम् . कामश्च वसन्तानुगो भवति ॥ ५4. चन्द्रोदयन्ति पूर्वाद्रौ मलये चन्दन(l.9)न्ति च . मन्दरे क्षीरपूरन्ति तुषारन्ति हिमालये ॥ उपमोपक्रमोत्प्रेक्षाद्वयम् ॥ 55. यशांसि(l.10) शीतलीकर्तुमिच्छ्येव दिगङ्गनाः . यस्य गोविन्दराजाराव्यस्स तस्मादुदपद्यत ॥ हे(l.11)तूत्प्रेक्षा ॥ इच्छयेवेति हेतुः ॥ यस्य यशांसि कर्तॄणि पूर्वशैला- दिषु चन्द्रोदयादिवदाचरन्ति. अत्र(l.12) हेतूत्प्रेक्षा. दिगङ्गनाश्शीतलीक- र्तुमिच्छ्येव ॥ उपमोपक्रमोत्प्रेक्षा . सर्वप्रातिपदिके(l.13)भ्यः क्विबित्येक इत्युपमानात्क्विब्बिधान ..................... मात्रतीतिपर्यवसाने तूपमानस्य प्र(l.14)कृते संभवौचित्यात्संभावनोत्थाने उत्प्रेक्षा ॥ स गोविन्दराजाख्य- स्तस्माज्जातः ॥ 56. यस्य(l.15) वैरिघरट्टात्वं गमितस्य कवीश्वरैः . वीर्यशाल्य॑नुसृत्यर्थमिवाभ्राम्यद्यशो जगत् ॥ कवीन्द्रैः(l.16) शत्रुशु घरट्टात्वेन वर्ण्यमानस्य यस्य यशो जगद्भ्रा- म्यदत्र फलमुत्प्रेक्ष्यते वीर्येण शालन्ते(l.17) ये ते वीर्यशालिनो वीर्ययुक्ता- श्शालयश्च तेषामनुसरणार्थम् ॥ फलोत्प्रेक्षा ॥ अनु(l.18)सरणं फलम् ॥ 57.
1 Ms. यिं. Dhātupāṭha, Bhū-ādi, 926. 2 Pāṇini, 3. 3. 114. 3 i.e. 54 and 55. Comm. of 55 with 56. 4 Ms. °कर्तु°. 5 Ms. °पश्य°. 6 cf. Mahā- bhāshya on Pāṇini, 3. 1. 11. Kāśikā quotes it as a Vārtika. 7 Thus Comm. Ms. reads °शन्त्य°.