पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 140, कुल 330 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः . १२१ कीर्त्तिपुष्पविकासं यं रुद्धवान्कल्पशाखिनाम् • मन्ये तमेव मोक्तुं यः(1.10) पुरन्दरपुरं ययौ ॥ स राजा कल्पवृक्षाणां यशःपुष्पविकासं यं रुद्धवांस्तमेव मोक्तुं(1.11) स स्वर्गं गत इति जाने. कल्पवृक्षेभ्योतिदातासीदित्यर्थः . अतः कल्पतरूणां यस्तेन कीर्ति(1.12)विकासा रुद्ध आसीत्तस्मिन्प्रमीते स उत्पन्नः ॥ ८६. पद्मसबन्धिनीं लक्ष्मीं रिपुरामामुखा(1.13)नि यत् • अत्यांजयदिति प्राप्ता गुणिभिर्श्रीर्न कैस्ततः ॥ स राजा वैरिस्त्रीमुखानि पद्म(1.14)शोभामत्याजयदित्यतो गुणि- भिर्गुणवद्भिः पद्मैश्च कैर्न श्रीः प्राप्ता ॥ निदर्शने द्वे ॥(1 15) सम्भवद्वस्तु- सम्बन्धाऽसम्भवद्वस्तुसम्बन्धा च . अन्यत्रान्यसम्बन्धिनीं छायामन्यः कथं दधातीति(1.16) नास्ति वस्तुसम्बन्धः ॥ ८७. स दुर्वर्णमयैर्भूमिं रूपकैः पर्यपूरयत् • तां सुवर्णमयैस्तत्र क(1.17)विवर्गस्त्वपूरयत् ॥ दुर्वण्यं रौप्यं दुष्टा वर्णाश्च तन्मयै रूपकैर्दीनारविशेषैर्नाटकैश्च(1.18) स भुवमपूरयत् सौवर्णैः सुवर्णमयैश्शोभनाक्षरमयैश्च कविवर्गस्तामपूर- यत् ॥(1.19) ८८. कीर्ति स वर्तमानानां भटैर्जहे जयप्रियैः • अतीतानागतानां तु रूपकैरजयप्रियैः ॥ (1 20) जयः प्रियो येषां तैर्भटैः करणभूतैर्वर्तमानानां कीर्तिमहरत् अजयस्य राज्ञः प्रियै रूपकैः(1.21*) दीनारविशेषैश्च भूतानां भाविनां च राज्ञां कीर्त्ति- महरत् ॥ ८९. सोमलेखा प्रियाप्यस्य प्रत्यहं रूप(1.1)कैर्नवैः • कृतैरपि न संस्पर्शं कलङ्केन समासद्त् ॥ 1 Ms. अभ्या°. 2 Ms. दधतीं. 3 Ms. ॰कैप°. 4 Ms. राप्यं. १६