पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 150, कुल 330 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः . १३१ यन्नगरम् तथा हि सर्वासु दिक्षु भ्राम्यतापि कलियुगेनोन्नतर्मपि तत्पुरं न दृष्टम् . कलिस्तत्र न प्रविष्ट इत्यर्थः ॥ आक्षेपः ॥ अत्र वक्तुं युक्तस्यौ- (l.5)न्नत्यस्यानुक्तिमदित्यनेन प्रतिपादितो निषेधो निषेधाभासस्सम्पद्यमान- स्सदाचारं कलिप्रवेशाभावप्ररूढं विशेषमाक्षिपति ॥ 125. न यत्र धार्मिकः कश्चित्कीर्त्तिकामो नरोपि वा . अनाश्रयेण न प्राप्तः प्रवेशः कलिना क्वचित् ॥ यत्र नगरे धार्मिकः कीर्त्ति[का]मो वा कश्चिन्नास्तीति साध्यम् . अत्र साधनमाह अश्रयेण कलिना तत्र प्रवेशः क्वचिदपि न लब्धः ॥ आक्षेपः ॥(l 9) निषेधेनातिधार्मिकतारूपस्य विशेषस्य प्रतीतेः ॥ 126. किं नाम वर्ण्यते यस्य धुरीणैरपि वाग्मि(l.10)[भिः] . —————जि सर्वदा वर्णयन्ति यम् ॥ महावाग्मिभिरपि यस्य किं वर्ण्यते(l.11) 127. Lines 12 to end of page missing …………थ मित्रभावं विरहिणीमारणं कृत्वा कालपक्षं यमपक्षं कृष्णपक्षं च प्रपत्स्ये ॥(l.1) [आक्षेप]प्रकाराः ॥ 128. इत्यध्वगवधूसख्यो यत्र वातायने स्थिताः . निन्दन्ति वन्द्यं विश्वस्य प्रतिपत्सु सुधाकरम् ॥ यत्र वातायनगताः पान्थस्त्रीसख्यो विश्ववन्द्यं चन्द्रं प्रतिपत्सु निन्द- न्त्येवम् ॥(l.3) 129. पुण्डरीकैस्सुहरिणैर्मातङ्गैर्यत्र सुद्विजैः . कृष्णसारैश्च हरिभिश्शोभते राजमन्दिरम् ॥(l.4)
1 Ms. भ्रामं°. 2 Ms. °मति. 3 Ms. °नययः. 4 Ms. अमं°. 5 Ms. °ध्याशा°.