पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 151, कुल 330 में से
संदर्भ में पढ़ें१३२ पृथ्वीराजविजयमहाकाव्यम्. सुहरिगौरतिशुभ्रैः पुण्डरीकैः क्लृप्तैस्तथा सुद्विजैश्शोभनदन्तैर्मातङ्गै- र्हस्तिभिः कृष्णैश्च तैस्सां(l.5)रैश्चाश्चर्यंयत्र राजगृहं शोभते ॥ विरोधः ॥ विरुद्धाभासत्वात् ॥ तथा हि पुण्डरीका व्याघ्रावि(l.6)शेषाः कथं हरिणा भवन्ति मातङ्गाश्चाण्डालास्ते कथं द्विजाः कृष्णसारा मृगाः कथं हरय॑ः सिंहाः ॥ (l.7) 130. राजहंसानुरूप्येण सितोपि पृथिवीभुजाम् • असितो यत्र सततं जायते यशसां भरः ॥ यत्र(l.8) राज्ञामसितः खङ्गाद्यशो राजहंसानुरूप्येण राजहंससितो मन्वादिप्रशस्तराजयशो(l.9)नुरूपत्वेन…………यशसां भर उत्पद्यते ॥ विरोधः असितशब्दस्य विरोधद्योतकत्वात् ॥(l.10)……[अ]सितश्श्याम इति ॥ 131. क्ष्मायां यदकाठिन्यं शैल्ये तापकता द्विषाम् • अपालक -----(l.11) 132. [Lines 12 to end of page missing] (**35) 'ति नोत्थानं यत्र संपूर्णपादपि ॥ अन्यत्र देशे त्रयाणां पादानां भङ्गेपि धर्मं…………(l.1) लायते इत्यर्थः यत्र देशे चतुष्पादपि धर्म उत्थानं निर्गमनं नेच्छति तत्रैव तिष्ठतीत्यर्थः ॥ (l 2) विभावना विशेषोक्तिश्च ॥ अनवस्थितेर्हेतुः पादसा- मग्री तदभावेपि तत्फलं धर्मानव[स्थान](l 3)मुत्पन्नमिति विभावना तथा उत्थानस्य कारणं सम्पूर्णपादत्वं तत्सद्भावेप्युत्थानाभावरूपफलस्यो- त्पत्तिरिति विशेषोक्तिः ॥ 133. आयव्ययेषु कालैक्यं यत्र सर्वस्य दृश्यते • व्ययस्तत्त्वादौ(l.5) सुकृतिनामायस्तस्यानुयात्रिकः ॥ 1 Ms. °कैच्छ्र°. 2 Ms. °द्वैद्द°. 3 Ms. °श्शभरै°. 4 Ms. °यो सिं°. 5 Ms. °सिंश्च°. 6 Ms. °तरशां°. 7 Restore धर्मं इच्छति.