भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 186, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 186

१६८ पृथ्वीराजविजयमहाकाव्यम्. कालं च विरोधत्यागेनानुगृह्णाति . चन्द्रस्य कामोद्दीपकत्वात् काल(l.7)स्य तिथिमुखेन व्यवस्थितस्य चन्द्रेणैव संपादितत्वात् ॥ ७३. अखण्डितेच्छैरपि राजदारैः प्रि(l.8)यान्तराश्लेषसुखं न लभ्यम् . इतीव धन्याः प्रति दक्षकन्याः प्राप्नोति नित्यं नवरूपतां यः ॥(l.9) राजानो नृपा राजा चन्द्रश्च तत्प्रियाभिरैश्वर्येणाखण्डितेच्छाभिरपि नवनवदयितालि(l.10)ङ्गनसुखं न लभ्यते इत्यत इव भाग्यवतीस्ताराः प्रति यो नित्यं नवत्वं गृह्णाति कलानां च(l.11)यादपचयाच्चेति भावः ॥ ७४. पक्षस्थिते दैत्यगुरौ विवादं कृत्वा समं वाक्पतिनान्वयार्थे .(l.12) य एव लेभे विजयप्रशस्तिं श्रेयान्हि राज्ञः कविपक्षपातः ॥ चन्द्रस्य पक्षे स्थिते शुक्रे(l.13) सति बृहस्पतिना साकं पुत्रार्थे¹ विवादं कृत्वा य एव चन्द्रो विजयकीर्त्तिं लब्धवान् जी(l.14)…………तः बृहस्पति- चन्द्रयोर्विवादो जातः क्षेत्रिणो ममायं बुधः पुत्र इ(l.15)-· ७५. [Lines 16 to end of page missing] (*) प्रतिबिम्बिता भूर्यत्ततः कलङ्कः कलङ्क इति प्रवाहो जातः . कलङ्कः कलङ्क इति द्विरुक्ति(l.1)र्वीप्साप्रतिपादनार्था ॥ ७६. वव्रे बलादाङ्गिरसाङ्गनापि यदेनमेषोपि कथङ्कल(l.2)ङ्कः . विहाय देवी दमघोषसूनुं न रुक्मिणी किं विधुमालिलिङ्ग ॥ ¹ Ms. 'र्थेविं'.