भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 187, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 187

षष्ठः सर्गः. १६६ आङ्गिरसो जीवः(l.3) तस्याङ्गना रोहिणी साप्येनं बलाद्यद्गत्रेचकमत सोपि नास्य दोषः शिशुपालं त्य(l.4)क्ता रुक्मिणी विधुं विष्णुं किं नालि- ङ्गत् ॥ 77. तुषारगौरादपि जातमस्मा- त्सुंत्रामरामा(l.5)श्रवणोचितेन . इन्दीवरेणेव सुरस्रवन्ती- हृदान्महानीलरुचा बुधेन ॥ शच्या श्रोतृसु(l.6)चितेन . सुरूपत्वादिति भावः . बुधेन महानीलका- न्तिना यतो हिमशुभ्रादपि जातम्(l.7) यथा शचीकर्णपूरत्वोचितेन नीलो- त्पलेन गङ्गाप्रवाहात् ॥ 78. अङ्कस्पृशमित्यादि(l.8) बुधस्तुतिपरमनन्तरकुलकम् ॥ अङ्कस्पृशं यं परभागभङ्गी- सौभाग्यहेतुं स्मरतेव(l.9) बालम् . अद्यापि नीलोत्पलचारुनेत्रो नोत्सृज्यते चन्द्रमसा कुरङ्गः ॥ बुधो नील इत्यतः(l.10) परभागभङ्गया सौभाग्यस्य हेतुमङ्कारूढं यं बालं स्मरतेव चन्द्रेण मृगोद्याप्यङ्गान्न(l.11) त्यज्यते नीलोत्पलदृष्टिः ॥ 79. सितेन्दुमुक्तामणिजीवहीर- भौमार्क रक्तोपलगुम्फि(l.12)तो यः . आकाशलक्ष्म्‍या इव कण्ठसूत्रे सहार्कणा नीलमणित्वमेति ॥ सितेन्दू एव(l.13) मुक्तामणी जीव एव हीरो भौमार्कवेव रक्तोपलौ 1 Ms. °ज्ञी°. 2 Ms. °दशुभ्रा°. 3 Ms. °च्याश्रों°. 4 Ms. °शी°. 5 Ms. °स्प°. 6 Ms. ये. २२