पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 221, कुल 330 में से
संदर्भ में पढ़ें२०४ पृथ्वीराजविजयमहाकाव्यम्. ध्वंसितानां शैलकोट्टानां गणनाप्रतिनिधी(1.6)निव यान्प्रासादांस्तत्र नगरेमजोकरोत्तेषां मध्ये यूथनाथमिव संसाररोगभेषजं वैद्यना(1.7)थस्य प्रासादं प्रजाहितोकरोत् ॥ ६५. दंचे¹ हरिहयेनेव शुद्धरीतिमये हरौ . प्रतिष्ठां ल(1.8)म्भितस्तत्र शुद्धरीतिमयः पिता ॥ रीतिर्धातुविशेषः . तत्प्रकृतौ हये सूर्येणेव दत्ते शुद्धरीतिः(1.9) शुद्धा- चारश्च पिता तेन प्रतिष्ठापितः ॥ ६६. पितुः² रीतिमयस्य रीतिवाहारूढस्य प्रतिष्ठापि(1.10)तस्याग्रे रीतिमयं स्वात्मानं प्रतिष्ठाप्य राजा स सर्गे त्रिधा रीतिमयं कविरिवाकरोत् . क- वि(1.11)पक्षे गौडीवैदर्भीपाञ्चाली चेति तिस्रो रीतयः ॥ ६७. एकस्थाने प्रतिष्ठाप्य ब्रह्मविष्णुम(1.12)हेश्वरान् . त्रिपूरुषमिव श्राद्धं धन्यो निर्मितवान्पितुः ॥ एकस्मिन्स्थाने ब्रह्मादींस्त्रीन्देवा(1.13)न्प्रतिष्ठाप्य पितुस्त्रिपुरुषं श्राद्धमिव सोकरोत् . प्रतिष्ठाप्येत्यविवक्षितपूर्वकालम् ॥(1.14) ६८. कृते यथेष्टफलदे तेनायतनपञ्चके . सुरद्रुममदं³ जेग्ये मेरोग्जयमेरुणा ॥ तेन रा(1.15)ज्ञा⁴ प्रासादपञ्चके कृते सत्यजयमेरुदुर्गेण मेरोर्मदो जितः अभिलषितफलदायि(1.16)त्वात् ॥ ६९. तन्निर्मितसुरागारैर्ग्रामैर्गर्ज्ञानकादिभिः . अल्पावशेषवास्तव्या मन्ये जज्ञेमरा(1.17)वती⁵ ॥ 1 Ms. दन्ते. 2 No verse corresponding to this comm. The 1st, 3rd and 4th lines can be restored—पितू रीतिमयस्याग्रे ॰॰॰॰॰॰राजा सर्गे त्रिधा रीतिमयं कवि- रिवाकरोत् ॥ 3 Ms. ॰समो. 4 Ms. राज्ञः. 5 Ms. राज्ञेमं॰.