पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 222, कुल 330 में से
संदर्भ में पढ़ेंतेन निर्मितानि सुरागाराणि येषु तैर्गङ्गानकादिभिर्न्नामैर्हेतुंभिरमरावती अल्पेवशेषा(l. 18) वास्तव्या देवा यस्यामिति जाने . अमरावतीतोप्यत्राधि- कगुणत्वादिति भावः ॥ 70. ऋणशुद्धिं(l. 19) विनिर्माय निर्माणैरीदृशैः पितुः . तत्वरे दर्शनं कर्तुं परलोकजयी नृपः ॥ देव[लयनि](l. 20)र्माणैः पितुः ऋणं शोधयित्वा पितुर्दर्शनं कर्तुं परलोकं जितवान्राजात्वरत् ॥¹ 71. ए[काकिना हि](l. 21) मत्पित्रा स्थीयते त्रिदिवे कथम् . बालश्च पृथिवीराजो मया कथमुपेक्ष्यते ॥ 72. [इतीवास्या(l. 22*)भिषिक्तस्य रक्षार्थं व्रतचारिणीम् . स्थापयित्वा निजां देवीं पितृ(?)]भक्त्या दिवं ययौ ॥ मत्पित्रा केवलेन स्व(l. 1)र्गे कथं स्थीयते कथं च बालः पुत्रो मया [उपेक्ष्य]ते इत्यत इवाभिषिक्तस्य पुत्रस्य रक्षार्थमिव व्र(l. 2)तानुष्ठायिनीं देवीं स्थापयित्वा पितृभक्तस्स स्वर्गमगात् ॥ 73. तं पृथ्वीभटपर्यन्ताश्चाहमानपुर(l. 3)स्सराः . आदित्यद्युतयस्सर्वे प्रत्युज्जग्मुर्महीभुजः ॥ सर्वेपि स्ववंश्यास्स्वर्गे तं प्रत्युद्गताः ॥(l. 4) 74. तेषामेकतमं मध्ये नापश्यत्पितृवैरिणम् . कचिदप्यन्धतामिस्रे मग्नं व्रीडावशादिव ॥ तेषां म(l. 5)ध्ये एकं पितृवैरिणमेव स नापश्यत् . काप्यन्धतामिस्रे लज्जयेव मग्नम् ॥ 75. 1 Ms. ᵒहेतुभि˚ lc. under l. 18.