भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 229, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 229

[ नवमः सर्गः ] इति हृद्गतेन दयितेन रुद्रता- मुपजग्मुषा मुषितमोहदोहदा • अपवर्गपद्धतिमिवानुपप्लवां तनयश्रियं नृपवधूर(1.3)शिश्रियत् ॥ एवं रुद्रभावं गतेन हृद्गतेन भर्त्रेव निवाँरितमोहोत्पत्तिः कर्पूरदेवी निर्बाधां मोक्ष(1.4)वीथीमिव पुत्रलक्ष्मीमधारयत् ॥ १. तनयोभ्यषिच्यत यदा तदापत- नंगनादनभ्रमलिनादपां(1.5) कणाः • असमञ्जसव्यवसितापसारणं- प्रथितग्रहाम्बुजलशीकरश्रियः ॥ यदा राजपुत्रो(1.6)भिषिक्तस्तदा निरभ्रादाकाशाज्जलकणाः पेतुः अस- मञ्जसमनुपपन्नं यद्व्यवसितं व्यवसायः(1.7) प्रजापीडनं तस्यापसारणं त्या- गस्तेन प्रथिता निर्गता ये ग्रहास्तत्कणास्तत्समाः⁵. उपमोपक्रमो(1.8)त्प्रेक्ष्येयम् . व्यथितेति पाठो नार्षः वैद्यमाणाविरोधात् • यद्वा व्यथितेति पाठः विपूर्व- स्यायतेः(1.9) निष्ठायां रूपम् ॥ २. शशिसूर्ययोः ससुतयोर्हि⁸ मानसं कुलपद्मपातमतिमात्रमश्नुते • परि(1.10)पालितां स्वयमवेक्ष्य मातरं न महीसुतः स्पृशति जातु वक्रताम् ॥ 1 Ms. ॰वपू॰. 2 Ms. ॰वेथी॰. 3 Ms. ॰तद्व॰. 4 Ms. ॰सरण्य॰. 5 Ms. ॰माउ॰. 6 Ms. ॰वैव॰. 7 Ms. स्वसु॰. 8 Ms. शनिबुधयोः written above ॰र्हि under l. 9.