पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 268, कुल 330 में से
संदर्भ में पढ़ें˙दशमः सर्गः . २५१ ‿ ‿ ‿ ‒ (l.1)मपदे विमुक्तसत्वं ‿ ‿ ‿ रजोपि तमोदशां प्रपन्नं . तदपि समरसाक्षिणोप्यवृण्वन् ‿ ‿ ‿ ‿ देवभटा?दयः प्रवीराः ॥ राज्ञा भीतानां मारणाभावादपदे अस्थाने भ्रष्टसत्वं तं तमोदशां प्रा- प्नुवद्रजो य・・・・・・(l.3)दयत्तद्देवभटादयः संवव्रुः . देवभटादिभिस्तत्सत्व- भ्रंशो गोपितं इत्यर्थः . रजस्तमसी गुणौ . ३४. परिद्रुढरहितशिरोविहीनो भवति पुमानिति यः पृथुप्रवादः . अहितभुजभृतां ‿ ‿ ‿ तमगमयच्चरितार्थतां नरेन्द्रः ॥ अस्वामिको लोकशिरोरहितो भवतीति यो महाञ्जनप्र[वादस्तं श]- (l.6)त्रुभटानां शिरांसि छित्त्वा सत्यार्थत्वमनयत् . विग्रहराजपुत्रे चलिते शत्रूनवधीदित्यर्थः ॥ ३५. भुवि पतितवतां स्वयोधमूर्ध्ना- मनुसरणार्थमिवावनम्रमुख्या . सममहितमहीपतेर्जनन्य्या सुभटघटाँः प्रभुरानिनाय बध्वा ॥ छेदेन भुवि पतितानां निजभटशिरसामनुगमनार्थमिवा[न]तमुख्या शत्रुराजमात्रा सह बध्वा(l.9) राजा सुभटपंक्तींनानयत् ॥ ३६. असुरुधिरसिन्धुतीर्थिकानां नर[रुधिराच]मनं शुपेयपानं . 1 Ms. 'दे.' 2 Ms. °दयसंवक्रः. 3 Ms. °तं. 4 Is it अहितभटशिरांसि कर्त्तीयरक? 5 Ms. 'चं. 6 Ms. °टाम्°. 7 Sic. Read °क्तीरा.°