पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 269, कुल 330 में से
संदर्भ में पढ़ें२५२ पृथ्वीराजविजयमहाकाव्यम्. इति नृ(l.10)पतिशरा इवं त्रपातो झगिति निषङ्गनिषङ्गितामगच्छन् ॥ पृथ्वीराजेनासुरसमाशरात्रवो नित्यं······(l.11)अतोसुररक्ताब्धौ ती- र्थिकानां तद्वाणानां नररुधिरेणाचमनमपेयस्य पानमयुक्तं भवतीतीव लज्जा- तो राजं(l.12)शरास्तूणे तूर्णं प्रवेशमगच्छन् ॥ ३७. अथ विजयिनि राजनि प्रविष्टे क्षणमपि निर्गमनं श्रियोतिभीमा . अरुणदजयमेरुगोपुरस्य प्रतिभटमूर्धभिरेव तोरणस्रक् ॥ ततः प्राप्तजये राज्ञि पुरं प्रविष्टे सति शत्रुमस्तककृता अजय- मेरुदुर्गस्य तोरणस्रगेवातिभीमत्वान्निर्गमनं श्रियोरुणत् . श्रीस्तत्रैव स्थिरा- भूदित्यर्थः ॥(l.15) ३८. मरुदिव दिशि पश्चिमोत्तराया- र्मतिबलवानधिपस्समस्त एव . तदुपरि परमार्थपौरुषद्धर्या हय- पतिरेव तिरस्करोति सर्वान् ॥ यथा वायुस्तथा पश्चिमोत्तरायां वायव्यविदिशि सर्व एव प्रभुशति- बलवान्भवति तदुपरि हयपतिरेव सहजविक्रमसमृद्धस्सन्सर्वान- भिभवति ॥ ३९. तमपि मुषितगर्जनाधिकारं विरसलघूं शरदभ्रवन्न्यधाद्यः . कदनकुशलो गवामरित्वा- त्समुदितगोरिपदापदेशमुद्रः. ४०. 1 Ms. ॰तिशि. 2 Ms. ॰वाश्च. 3 Ms. ॰च्छत. 4 Ms. ॰न्नाश॰. 5 Ms. ॰मोन्तरायोस्तित्ति॰. 6 Ms. ॰मोन्तरायं. 7 Ms. ॰गौरि॰.