पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 289, कुल 330 में से
संदर्भ में पढ़ेंवीराणां(l.14) न तंदुपयोग्यमिति धनुर्भङ्गो लज्जाकरः . संभावनेयम् . अथवा त्रुट्यदिति गौरी•••••••• हेतुः(l.15) अनुट्यन्ती स्थिरा संघटना यस्य तस्मि- न्नङ्गे वासना यस्य तद्भावेन यथा धनुष्कर्षणेऽङ्गानां श्लेषो भवति(l.16) ततो गौरीशत्वे त्यक्तेपि स्वाङ्गसन्धिभङ्गभयाद्धनुषो मन्दकर्षणं संभाव्यते ॥ 49. अस्मद्दैवतमूर्तिलोचन(l.17)युगाच्चन्द्रार्कतेजोमया- दानन्दाश्रुजलायमानमुदितं राजन्यवंशद्वयम् . निश्शेषं प्रममार्ज(l.18) यः करयुगं व्यापारयन्क्रीडया पुण्यैर्नेत्रयुगं पवित्रयति नस्सोयं मुनिर्भार्गवः ॥ हर्षबाष्पक(l.19)णसमानं सूर्येन्दुमयादस्मान्नेत्रयुगादुत्पन्नं राजवंशद्वयं दैवतभूतिकमपि यो भुजद्वयव्या(l.20)पारमात्रेण हतवान्सोयं भृगुपुत्रो मुनिः पुण्यैर्नो दृष्टिं पवित्रयति . पुण्यवशादेतद्दर्शनं(l.21) भवतीत्यर्थः ॥ 50. चापं चक्रायुधस्य(?) श्वसुरगृहगतञ्चत्तविक्षेपंचाप- द्रोहव्रीडातिभारा(l.22)नतमुखमिलितोदात्ततावीरधर्मः . वीर्येणार्धेन दोष्णोर्मृदुमृदु दलनातङ्कसा‿‿(l.23)- न्देवो बैलक्ष्यहासद्युतिकुसुमचयैरर्च्यते भार्गवेण ॥ जनकस्य गृहे निश्चितं••••••••(l 24*)••••••••नतमुखं कृत्वा मिलितावुदात्ततावीरधमौं यस्य स भगवान्किंचिद्दले(l.1)••••••वेण बैल- क्ष्यहासखपाहसितं तस्य द्युतिभिरेव पुष्पप्रसरैः पूज्यते ॥(l.2) 51. अवनिमपहृतां जहौ यदेकः क्षितिपतिसाद्द्विदधे पुनर्यदन्यः . समसमयमतस्स्थितं नताभ्यां जितज(l.3)यिनोरिह रामयोर्मुखाभ्याम् ॥ रामभद्रपरशुरामयोर्मध्यादेको हृतां जितां भूमिं तत्याज अन्यो दाश- (l.4)रथिः पुनरवनिं राजसादकरोत् अत इव जितस्य परशुरामस्य जयिन- . 1 Ms. °र्यांत°. 2 Ms. गोरी°. 3 Ms. °रक्ष°. 4 Ms. °ष्णयो°, . 5 Ms. °द्यक्तौ°, 6 Is it 'निक्षेप'?, . . .