पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 290, कुल 330 में से
संदर्भ में पढ़ेंएकादशः सर्गः. २७३ श्रीरामस्य मुखाभ्यां सम(l.5)समयं युगपन्नताभ्यां स्थितम् . श्रीरामस्य ब्रा- ह्मणाजयित्वादन्यस्य च जितत्वाल्लज्जाय हेतुन्तरसंभावनं ॥(l.6) 52. आशाचतुष्टयविभङ्गुरजामदग्न्य- कीर्त्तिप्रतापमिथुनारचितानुंचर्यैः . कान्तानुगैरनुगतस्तनयैश्च(l.7)तुर्भि- स्सोयं नृपो दशरथः प्रविशत्ययोध्याम् ॥ आशाचतुष्टयाद्विभङ्गुरमानंतं यज्जामदग्न्यस्य की(l.8)र्तिप्रतापरूपं मिथुनं तेनाचगितानुचर्यैरनुगतैर्जायासहितैः पुत्रैश्चतुर्भिसहितो दशरथस्सोयं वि(l.9)शत्ययोध्याम् ॥ 53. ज्येष्ठप्रवासविधिरस्य न सन्निधाने धर्मानुबन्धनधनस्य भविष्यतीति . आकृष्यमाण इ(l.10)व रावणदुर्निमित्तै- र्मातामहस्य भवनं भरतोयमेति ॥ धार्मिकस्यास्य सन्निधाने सति ज्येष्ठस्य(l.11) प्रवासनं न संपद्यते इत्यतो रावणपापैराकृष्यमाण इव भरतो मातामहगृहं गच्छति ॥ 54. जानक्येव(l.12) गुणानुबन्धनतया देवो धनुर्लेखया शत्रुघ्नप्रथमेन सार्थममुना भ्रात्रेव तूणेन च . सत्येन स्खलि(l.13)ता पितुर्वसुमती राज्याभिषेकेण मे यद्यार्द्रत्वमुपेष्यतीति चकितो मुञ्चत्ययोध्यामयम् ॥(l.14) गुणानां शीलादीनां गुणस्य मौर्व्याश्चानुबन्धेन नतया सीतयेव चाप- लतया सह तथा शत्रुघ्नेषु(l.15) प्रथमेन निष्षङ्गेणेव लक्ष्मणेन च सहायं रामोयोध्यां त्यजति, कथं चकितं, चकितत्वे हेतु(l.16)र्माह मम राज्याभि- 1 Ms. °मिथु°. 2 Ms. °ताम्बुच°. 3 Ms. °मागतं. 4 Ms. °ध्नः प्र° 5 Ms. मात्रे°. 6 Ms. blank before °र्मा°. ३५