पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 313, कुल 330 में से
संदर्भ में पढ़ें२६६ पृथ्वीराजविजयमहाकाव्यम्. अणिमानमतिप्रसादिता- द्द्युपतेर्जातुचिदाससाद सा . मतिमम्बुजनालवद्यत- श्शुचिसूक्ष्मां(l.12) प्रविवेश भूपतेः ॥ अतिसेवितादिन्द्रात्सा तिलोत्तमा कदाचिदणुत्वं प्रसादं प्रापत् यतो हेतोर्मृणा(l.13)लसूत्रवच्छुचिं सूक्ष्मां मतिं राज्ञः प्रविष्टा. अणुरेव हि सूक्ष्मं प्रविशति. इन्द्रश्च मृणालनालं .........(l.14*)अवंधे(?) प्रांविशदि- त्यागमः ॥ 14. सहजस्य तरोश्शरीरकृतै- र्हृदि रुद्धे कुसुमैर्मनोभुवा . मुमुदे मुखदेव(l.15)ता रमां नृपतेश्श्वाससमीरसौरभैः ॥ लक्ष्म्यास्सहजस्य तरोः पारिजातस्य पुष्पैश्शरीरीकृतैः कामेन रु(l.16)द्धे सति हृदि राज्ञो निश्वाससौगन्ध्यैर्मुखदेवता लक्ष्मीर्मुमुदे तुष्टा ॥ 15. अमरत्वमु - - - - रं*(l.17) प्रविशन्त्येव हृदि द्युयोषिता . नृपतेर्निमेषतां दृशा- वतिमात्रं बिभरांबभूवतुः ॥ .........प्रविशन्त्या सुरस्त्रिया देवत्वमिवोपायनीकृतम् य- स्माद्राज्ञो दृशौ निर्निमेषभावमवहताम् . देवा हि निर्निमेषाः ॥ 16. द्युवधूपरिरम्भसाक्षिणः प्रथमे स्त्री वयमेव भूभुजः .
1 Ms. ˚दर्मं. 2 Is it कृते वृत्रवधे प्रा˚? 3 Ms. रसा. 4 Ms. ˚दमा˚. 5 Is it ˚लमुपायनीकृतं ?. 6 Ms. ˚मेस्तौ.