पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 36, कुल 330 में से
संदर्भ में पढ़ें१६ पृथ्वीराजविजयमहाकाव्यम्. यस्त्वं पुण्डरीकाक्ष इति पुष्कराक्ष इति प्रसिद्धः तथा त्वं नाभौ पुण्ड- रीकं पुष्क(l.5)रं यस्त्वं धारयसि सं एवंविधस्त्वं तत्र प्रसिद्धे यत्कृतसन्निधानो भवसि नूनं ततो हेतोर्जनास्तंत्पुष्करं त्रिपु(l.6)ष्करं कथयन्ति ॥ ३८. देवस्त्रिनेत्रोप्यजगन्धनामा त्रिपुष्करे सन्निदधाति तस्मिन् . जगत्त्रयीपावन(l.7)ताप्रवृत्तं त्रिस्रोतसो दर्पमिवापनेतुम् ॥ तत्र त्रिपुष्करेऽजगन्धनामा देवस्संनिधानं करोति अत्र (l.8) संभाव्यते अहं त्रिभुवनं पवित्रीकरोमीति जातं गङ्गाया दर्पं निवारयितुमिव ॥ ३९. सा यज्ञभूमिर्म(l.9)म पूर्वमस्यां कुण्डत्रयं वह्निमयं यदासीत् . तदेव कालस्य विपर्ययेण पयोमयीं मूर्तिम(l.10)भिप्रपन्नम् ॥ यत्त्रिपुष्करतीर्थे सा मम यज्ञभूमिः पूर्वमभूत् अस्यां यज्ञभूमौ त्रया- णाम्(l.11)ग्नीनामाश्रयो यत्कुण्डत्रयं यदासीत्तदेव संप्रति कालवशाज्जलमयं संपन्नम्. वह्निमयमि(l.12)ति तत्प्रचुरे मयट् ॥ ४०. लोके त्वदीये यदि वा मदीये माहेश्वरे वा न तथा रमन्ते . यथा त्रयाणाम(l.13)पि सन्निधाना- दस्माकमस्मिन्नपवर्गकामाः ॥ तव मम महेश्वरस्य च संबन्धिनि भुवने मुक्ति(l.14)कामा न तथा 1 Ms. °स्त्वं lc. on margin. 2 Ms. स lc. under l.5. 3 Ms. °नास्तं°. 4 Ms. °संनीभू°. 5 Pāṇini, 5.4.21. (तत्प्रकृतवचने म०), cf. Kāśikā, प्राचुर्येण प्रस्तुतं प्रकृतम्.