पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 45, कुल 330 में से
संदर्भ में पढ़ेंप्रथमः सर्गः. २५ गर्भेकुलकम् ॥ उपासते मां त्रिदिव(l.19)स्पृशोपि यदर्थमेव त्रिदशांस्त्रिसन्ध्यम् • त्रिविक्रम त्रीणि पदानि विष्णो- स्तव प्रवृत्तानि यतस्त्रिलो(l.20)क्याम् ॥ यदर्थं मोक्षप्राप्त्यर्थं स्वर्गस्थिता देवा अपि मां नित्यं सेवन्ते तथा हे त्रिविक्रम विष्णोर्विश्वव्यापकतां(l.21) कुर्वतस्तव त्रीणि पदानि यतः प्र- भावात्त्रिलोकव्यापीनि संपन्नानि ॥ ६५• व्यक्तात्रिशूलस्य शिखा(l.22)त्रयेपि त्रिविष्टपं येन तृणाय मत्वा • त्रिशङ्कुदिङ्नाथमुषांबभूव पुराणि च त्रीणि तृणीचकार ॥ (l.23) त्रिशूलस्य धारात्रये सत्यपि येनैव महिम्ना स्वर्गं तृणायेव मत्वा अय- मर्थः शक्त्युत्कर्षात्पुनरपि(l.24) स्वर्गं प्रसादयामीतीश्वरो मतवान्धर्माधर्म- विवेचकत्वेन स्वर्गस्य रक्षितारं त्रिशङ्कुदिशो दक्षिणा(l 25*)शाया नाथं स्वामिनं धर्मराजमुषांबभूव स्वर्गे••••••••तेतस्स्वर्गस्यापि दाहः प्रसज्यते तस्यापि दाहोस्तु किं तेनेति³ त्रिपुराणि चाधाक्षीत् . उषांबभूवेति गुणा- र्भावश्चिन्त्यः ॥ (l.1) ६६• किं भूयसा त्रीनुदयानवाप्य शक्तीश्च सिद्धीश्च समेत्य तिस्रः • संगृह्य मित्रैत्रितयं निगृह्णां- मित्रत्रयं (l 2) चोज्वलितप्रयत्नाः ॥ ६७•
- Ms. °दिशं. 2 Ms. स्वर्गस्थिता lc. on the margin. 3 Ms. स्व° to °ति lc. on top margin. 4. Pāṇini, 7.3.86.(also see 3.1.38.) 5 Ms. चित्र°. 6 Ms. °गृह्णां.