पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 47, कुल 330 में से
संदर्भ में पढ़ेंप्रथमः सर्गः . २७ तीर्थेन तत्कस्य न पुष्कराक्ष त्रिधा युगेषु त्रिषु पुष्करेण .(1.13) बभूव चिन्तामणिकामधेनु- कल्पद्रुमप्राग्रहरेण साम्यम् ॥ तिलकम् ॥ हे पुष्कराक्ष(1.14) दिङ्नागानां करस्थेन पुष्करेण कराग्रेण वाग्देवतायाः श्रियश्च करवर्त्तिना वा पुष्करेण पद्मेन सप्तसप्त(1.15)द्वाराणां पुष्करेण जलेन सप्तसमे रखेर्वर्त्मना पुष्करेणाकाशेन महानटेश्वरस्य नाट्य(1.16)काले नन्दि- मुखैर्वाद्यनीयेन पुष्करेण मुरजेन तथा दैत्यस्त्रीहासज्योत्स्नाया मेघे निवारके (1.17) इत्यर्थः तवासिन्नन्दकाख्ये खड्गे तिष्ठता पुष्करेणाग्रेण च यन्न प्राप्तं तत्रिषु युगेषु चिन्तार(1.18)त्नादिभ्यश्श्रेष्ठेन त्रिपुष्करेण साम्यं कस्य न बभूव ॥ ७२. स्वयं पयोधिं विरसं विदित्वा त्वं पुण्ड(1.19)रीकाक्ष यदप्यतिष्ठः .. शयालुतायास्तदयं न कालो दयालुता सा समयानुयाता ॥(1.20) हे पुण्डरीकाक्ष समुद्रं क्षारं मत्वेव त्वं स्वयमप्रार्थित एव तत्पुष्करमा- श्रयैः ततस्त्व नायमव(1.21)लेप[कालस्तव क]रुणोचिता ॥ ७३. उत्तिष्ठमाने त्वयि माननीय शङ्कास्पदं कस्य कलिर्वराकः .(1.22) न हि त्रिलोकीभयभञ्जनार्थे तवोद्यमे द्वापरमप्यवैमि ॥ हे माननीय त्वय्युत्तिष्ठमाने गृहीतो(1.23)द्यमे सति वराकः कलियुगं कलहश्च कस्य शङ्कास्थानं . न कश्चित्क्लेशशङ्कत इत्यर्थः . अत्र हेतुः(1.24) 1 Ms. श्रियश्च lc. under 1. 14. 2 or ॰दभ्यतिष्ठः ? 3 Ms. ॰भ्रंयः . 4 Add कलिं-