पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 63, कुल 330 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः . ४३ यदस्ति किंचित्करणीयमुच्यतां तदित्यभूत्प्राञ्जलिरग्रतस्तयोः ॥ (l.13) सप्त महतः प्रभावानवाप्य सप्तमचक्रवर्तिभावं लभमानस्स कर्तव्यमा- ज्ञाप्य(l.14)तामिति वदंस्तयोः पुरो बद्धाञ्जलिरभूत् ॥ 41. सुदर्शनस्य प्रतिपादकं प्रति(l.15) त्रिनेत्रमुत्तानितपूर्वमेकदा . पुरोस्य विश्वाभयदक्षिणाकृते प्रसारयामा(l.16)स करं जनार्दनः ॥ सुदर्शनस्य चक्रस्य दातारं त्रिनेत्रं प्रति हरिणा कदाचि(l.17)त्पूर्वमु- त्तानितं हस्तं हरिरस्याग्रे जगदभयदक्षिणार्थं प्रसारयामासोत्तानं(l.18) कृतवान् ॥ 42. ततो नियुक्तस्स यथोदिते विधौ विधौ च देवे च विधौ तिरोहिते . यश(l.19)स्यमर्त्यारि——⏑—विधौ विधौतपाप्मा भरबन्धमग्रहीत् ॥ विधौ ब्रह्मणि वि(l.20**³)धौ विष्णौ च देवेन्तर्भूते सति ताभ्याम- सुरवधे प्रेरितो विधौतपाप्मानुचितपापस्स पुरुषोसुरप(l.1)द्यानां संकोचक- त्वाच्चन्द्रसंमे यशसि भरबन्धमभिनिवेशं गृहीतवान् ॥ 43. करेण चापस्य ह(l.2)रेर्मनीषया बलेन मानस्य नयस्य मन्त्रिभिः . धृतस्य नामाग्रिमवर्णनिर्मितां स चाहमानोय(l.3)मिति प्रथां ययौ ॥ 1 Ms. °ससो°. 2 Is it °रिसरोजिनीविधौ ? 3 Ms. पृ. रा. वि. on margin. 4 Ms. चन्दसं°. 5 Ms. निन्दितां.