पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 64, कुल 330 में से
संदर्भ में पढ़ें४४ पृथ्वीराजविजयमहाकाव्यम् . स पुरुषश्चाहमान इति प्रथां प्राप्तः नाम्नामग्रिमाक्षरैः कृतां . केषां ना- (I.4)मानीत्याह . करेण धृतस्य चापस्य तथा मनीषया धृतस्य हरेस्तथा ब- लेन धृतस्य मानस्य(I.5) तथा मन्त्रिभिर्धृतस्य नयस्य. चापादीनां नामा- द्यक्षरैरिव कृतां चाहमान इति संज्ञां स लब्ध(I.6)वानित्यर्थः ॥ ४४. कदाचिदुत्कण्ठित एष मा स्म गा- द्विलोकयन्नर्कमितीव विष्णुना . विरिञ्चसा(I.7)मान्यमवेत्य लम्भितं स्वनाभिपङ्केरुहमातपत्रताम् ॥ एष सूर्यपुत्रः पितर्युत्कण्ठितस्सूर्ये(I.8) विलोकयन्सूर्यदर्शनहेतोस्सूर्ये मा गादितीव माहात्म्यविषये ब्रह्मणास्सादृश्यमवेत्य विष्णु(I.9)नास्य स्वनाभि- पद्मं छत्रतां नीतम् . छत्रत्वेन नाभिपद्मं हरिरदादित्यर्थः . विलोकयन्निति हे(I.10)तौ शतृप्रत्ययः . अयमर्थः ब्रह्मा मम नाभिपद्माश्रयः अयं च ब्रह्म- णास्सदृशः अस्याप्यहं(I.11) निजपद्मं ददामीति . यद्वा विरिञ्चसामान्यं साधारणमिति नाभिपद्मस्य विशेषणम् . त(I.12)स्यातपत्रतामवेत्य लम्भि- तम् . उपेत्येति पाठ आर्षः ॥ ४५. विवृद्धिमानीय दिनानि कानिचि- त्यु(I.13)नः पिता ते तनुतां तनोति मे . यशोनिधे तद्विभृहि त्वमेव मा- मितीव सेवापरमिन्दु(I.14)मण्डलम् ॥ ४६. तथा न विश्रान्तिपदं रिपुर्मधो- र्वैति मां मानद पुष्करं यथा . उपप्लवस्तद्द्रुतमे(I.15)व वार्यता- मितीव दुग्धार्णवमेव सेवकम् ॥ 1 Ms. लंच्छि०. 2 Pāṇini 3.2.126. 3 Ms. ॰ञ्च्यसा०. 4 Ms. ॰मिन्द्र०.