भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 65, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 65

द्वितीयः सर्गः ४५ तव पिता सूर्यो मां कंचित्कालं संवर्ध्य मम हानिं करोति(l.16) त- स्माद्धेतोर्हं यशस्विंस्त्वमेव मां रक्षेतीव सेवायां सक्तं चन्द्रमण्डलम् ॥ तथा ॥ मधो रि(l.17)पुर्विष्णुः पुष्करं यथा विश्रामस्थानं जानाति तथा न मां जानाति तस्माद्धेतोम्लेंच्छोपद्रवश्शीघ्रमे(l.18)व वार्यतामित्यतो हेतोस्सेवकं क्षीरसमुद्रमिव ॥ 47. हिरण्यगर्भस्य कमण्डलूदरे यमेव सं(l.19)स्थानविशेषमश्नुते . तमेव धृत्वेव महेश्वरभ्रमा- त्स्थितं हृदं मूर्धनि सौरसैन्धवम् ॥ ब्रह्म(l.20)णः कमण्डलुमध्ये गङ्गाजलं यमेव संनिवेशनं प्राप्नोति तमेव संनिवेशं गृहीत्वायं महेश्व(l.21)र इति भ्रमाच्छिरसि स्थितं गङ्गाप्रवाह्मिति रूपकम् . अयमपि हि महान्भूमेरीश्वरः ॥(l.22) 48. नभस्सरस्सारसयोर्बलद्विषा हिमाचलस्य स्फटिकाचलस्य च ध्रुवं कृतं पक्षतिभिर्नभश्चरै(l.23)- रमित्रशान्त्यर्थमुपायनीकृतम् ॥ नभ एव सरस्तत्र सारसयोर्हंसयोर्हिमाद्रिकैलाशयोः(l.24*) संबन्धि- भिः पक्षतिभिः पक्षैरिन्द्रेण नूनं कृतं सच्छत्रुत्त्यर्थं देवैर्ढांकनीकृतम् ॥ 49. अदृश्यमूर्तिस्स्वयमुष्णवा(l.1)रणं रथाङ्गपाणेस्सहधर्मचारिणी . समुन्नतिं सूर्यकुले करिष्यतो रघोरिवास्यापि बभार मूर्धनि ॥ जनै²(l.2)रहश्या श्रीस्सूर्यकुले माहात्म्यं करिष्यतोस्य रघोरिव शिरसि धृतवती छत्रम् ॥ कुलकम् ॥ 50. ¹ Ms. हदं. ² Ms. देवै° lv. above l. 1.