पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 71, कुल 330 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः . ५१ क्रमेण दावाग्निरिवोदपीपद- द्धनं प्रजातापस(l.3)मापनं कुलम् ॥ समस्तां भूमिं निष्कण्टकां कृत्वा भूभृतो राज्ञश्च प्रतापेन धू(l.4)म्रीं- न्कृत्वा स घनमसंख्यं मेघं च प्रजातापनिवारकं कुलमजनयत्. अत ए(l.5)व दावाग्निरित्युपमा ॥ 68. समागतः पुष्करतीर्थयात्रां- प्रसङ्गतः कञ्चन काल(l 6)मुर्वराम् • परीक्ष्य सर्वामपि योगिनां गुरु- र्यथागतं भास्करमण्डलं ययौ ॥(l.7) त्रिपुष्करे तीर्थे तीर्थयात्रया हेतुभूतया भूमिसमागतः प्रसङ्गेन महीं प- रीक्ष्य परिपा(l.8)ल्य स महायोगी यथागतं सूर्यमण्डलं प्रति गतवान् .योगी च सूर्यमण्डलं(l.9) प्रविशतीत्यर्थच्छाया ॥ 69. अचाहमानापि रराज मेदिनी विगाहमाना रुचिरं(l.10) तदन्वयम् • न वंशगुल्मेन तथा वनस्थली यथा हि भग्नेन विभाति मौक्तिकैः ॥(l.11) चाहमानरहितापि भूमिशुशुभे रुचिरमधिकं यतः तत्कुलं धारयन्ती. अ(l.12)त्र दृष्टान्तमाह अत्र वंशगुल्मे भग्ने सति मुक्ताफलैर्वनभूमिर्यथा शोभते(l.13) तथा वंशगुल्मेन न शोभते वनभूमिः ॥ 70. काकुत्स्थमिक्ष्वाकुरघू च यद्व- त्पुराभ(l.14)वत्त्रिमवरं रघोः कुलम् • कलावपि प्राप्य सचाहमानतां प्ररूढतुर्यप्रव(l.15)रं बभूव तत् ॥ 1 Text पुष्टान्. 2 Is it यात्रया प्र° ? So comm. 3 Ms. परीक्ष्य twice. 4 Ms. उद°. 5 Ms. काकुस्त°. 6. Ms. ॰ढतू°.