भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 85, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 85

तृतीयः सर्गः । ६५

भारं यन्यवर्धयदलघूभवंतीं भूमिं वहञ्शेषो नि(l. 2)रहङ्कारो जात इत्यर्थः ............ (l. 3) ...... फणिमारणात्फणिपतिस्तुष्यतीति चित्रम् ॥ २५. भुवमुद्धरञ्जनयन्नरकं प्रममाथ तं मधुरिपु(l. 4)श्च पुनः । स पुनस्तथा त्रिदिवमर्जितवा- न्क्रतुभिश्च तं सुवसतामनयत् ॥ भूमिमुद्धरन्मधुरिपुर्नरकमृ(l. 5)दपादयत् ततस्स एव नरकं हतवान् स राजा पुनर्भूमिमुद्धरन्निरुपद्रवां कुर्वंस्तथा स्वर्गमर्जि(l. 6)तबान्स तं स्वर्गे यज्ञैस्सुवसतां यथानयत् . यज्ञतृप्ता देवास्स्वर्गे सुखमासन्नित्यर्थः ॥ २६. अतिसं(l 7)कुचन्नवयवैस्सकलै- र्यमधस्स्थितो वहति कूर्मपतिः । उपरि स्थितस्सकलभूमिभृतां स विकस्वरः (l 8)क्षितिभरं तमधात् ॥ भूमेरधस्स्थितः कूर्मराजोङ्गैस्सङ्कुचन्यं वहति तमेवायं राजा राज्ञामु- परि स्थि(l. 9)तस्स राज्याङ्गैर्विकसितोवहत् ॥ २७. अवहेलया यदकरोत्स किम- प्यतिदुष्करं किमपि येन विधेः(l. 10) । तत एव न ध्रुवमपत्रपया तदधिष्ठितां स वसुधामविशत् ॥ २८. यदि वा शुचेरजनि यस्य कुले स विधे(l. 11)र्गतिः परिभवेष्वभवत् . 1 Is it °न्यवर्त्तयलघूभं ? 2 Ms. °वंती. 3 Ms. °त्रजयं. 4 Ms. °नभू°. 5 Ms. °त्रया. 6 Ms. °मविगं. See Comm. 7 Ms. °षेः गं°. ६

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास) · पृष्ठ 85, कुल 330 में से · BharatKosha