पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 86, कुल 330 में से
संदर्भ में पढ़ें६६ पृथ्वीराजविजयमहाकाव्यम् । भगवान्स्मरन्नुपकृतिं न तत- स्तदलङ्कृताः परिबभूव दिशः ॥ सोयत्नेन यत्सम(l.12)पादयत्तद्विधिनापि कर्तुं यदुष्करम् अत एव ल- ज्जया . भुवं संभावनायां . स विधिस्तदाश्रितां भुवं(l.13) नारिशद्धिंसित- वान् . रिश हिंसायांस्तौदादिकः . अविशदिति पाठश्चिन्त्यः अनुकूलस्य विधेः प्रवे(l.14)शस्य विवक्षितत्वात् वक्ष्यमाणपक्षान्तरस्यानन्वयाभावाच्च ॥ यदि वेति पूर्वसम्भावनायाः पक्षा(l.15)न्तरमाह . यस्य॑ कुले जातस्स चाहमानो विधेरसुरैः परिभवे शरणमभूत् तस्माद्धेतोरुपकारं स्म(l.16)र- न्भगवान्विधिस्तद्भूषिता दिशो नाव्यथयत् . २९. सोर्ध्वर इत्यन्तं कुलकम् ॥ चरणेपि यो मदनुगं व्य(l.17)थये- न्मुखभञ्जनं सुकरमस्य मया . इति ते कथां स्मरति धर्मपरां न कलिर्मुखं क्वचन दर्शयते ॥(l.18) यो मत्सेवकं पादेपि व्यथयेत्तंस्य मुखभङ्गो मया क्रियते इमां धर्मनि- ष्ठां तव प्रतिज्ञां यत्स्मरति ततो नू(l.19)नं कलिर्मुखं क्वापि न दर्शयते . कलिना हि त्वदाश्रितो धर्मः पादेनखण्डियि(?) इति भावः ॥ ३०. तव पा(l.20)दयोरपसृतास्सविधा- द्भयविह्वलाँ: [पुनर] भाग्यशतैः . अतिरोहिताः कमलया क्षितिपाः प्रति(l.21)जज्ञिरे तदनु पस्पशिरे ॥ 1 Ms ॰स्तदङ्कृ॰. 2 Ms. ॰पादत्त॰. 3 Dhātupāṭha, Tudādi, 140. 4 Ms. यस्य सुकुं... 5 Ms. ॰ता दिदिशो. 6 Sic. Evidently verse 38 is meant, but metre does not allow that to begin with सो॰. 7 Ms. ॰र्थेमन्. 8 Ms. ॰येद॰. 9 Ms. ॰ह्न॰.