पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 87, कुल 330 में से
संदर्भ में पढ़ेंतृतीयः सर्गः . ६७ तव पादयोस्समीपान्नष्टा अत एव भीता अभाग्यशतैर्लक्ष्म्यानाच्छा- दि(1.22)ता राजानो नूनं परिज्ञाताः [ज्ञानस]मनन्तरमेव पस्पशिरे बाधि- ताः..................अपसृतैः(1.23) भयविह्वलैरिति तृतीयाबहुवच- नान्तः पाठश्चिन्त्यः. पस्पृशिरे स्पर्शेश्च पाठो विमृश्यः. पस्पशिरे (1.24*) [इति स्पर्श बा]धने इत्यस्य लिटि रूपं . राजद्रुहं परिज्ञाय लोका बाधन्ते॥ 31. भविता पुरस्सहचरैर्द्विषतां(11) वरिवस्यतां नृप भवच्चरणौ . इति सूचितं खलु तवैव नखै- र्यददर्शयन्प्रतिनिधीननुगान् ॥ हे नृप त्वत्पा(1.2)दौ शरणकुर्वतां शत्रूणां सहचरैः पुरो भविता भ- विष्यते इत्येतत्त्वन्नखैरेव सूचितम्. अत्र साध्ये साधन(1.3)माह. भवन्न- खाःशत्रूणां प्रतिनिधीन्प्रतिबिम्बाञ्शत्रूणामनुगानदर्शयन् भवन्नखेषु निर्म- लत्वा(1.4)न्नमन्तो भवद्विषः प्रतिबिम्बिताः ते प्रतिबिम्बा भवच्छत्रूणां सहचरा पुरो वर्तन्ते इत्यर्थः. त्वत्पादसेवका(1.5)नां सहचरसामग्री भवतीति भावः ॥ ३२. न हिमालयो न हिमवत्तनया न हिमद्युतिर्न हिमशैलनदी .(1.6) हिमवत्सखो न च हिमाद्रिवृषो हरहृष्टये तव यशांसि यथा ॥ यथा त्वद्यशांसि हरस्य हर्षाय तथा(1.7) न हिमालयाद्याः भवद्यशो- भिर्विश्वस्य पालनादिति भावः- ३३. हृदयङ्गमं न जलजन्म विधे- [र्न] म(1.8)[धु]द्विषो भुजगतल्परुचिः- 1 Ms. नूनं. 2 Ms. ॰ज्ञातं. 3 Ms. पस्पर्शि॰. 4 Dhātupāṭha, Bhū-ādi, 912. 5. See note 4, p. 71. 6 Ms. भान्ति॰. 7 Ms. ॰श्नमनो॰. 8 Ms. भवद्वि॰. 9. Ms. ॰न्तेत्य॰. 10 Ms. नहि॰. 11 Ms. ॰मेन.