भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 37, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 37

किं तत्रैव गच्छामि । (निःश्वास्यात्मनोऽवस्थां पश्यन् ।) किमिदं हि राजपुत्र्या विना तत्र गत्वा कथयिष्यामि । अये । कथितं चाद्य मम विन्ध्यकेतुना— “मा भैषीः । जीवति सत्रभवान्महाराजो दृढवर्मा गाढैःप्रहारैर्जर्जरीकृतो बद्धस्तिष्ठति ।” इति । तदधुना स्वामिनमेव गत्वा पादपरिचर्यया जीवित- शेषमात्मनः सफलयिष्यामि । (परिक्रम्योर्ध्वमवलोक्य।) अहो अतिदारुणता शरदातपस्य । यदेवमनेकदुःखसंतापितेनापि मया तीक्ष्णोऽवगम्यते । घनबन्धनमुक्तोऽयं कन्याग्रहणात्परं तुलां प्राप्य । रविरधिगतस्वधामा प्रतपति खलु वत्सराज इव ॥ ५ ॥ (इति निष्क्रान्तः ।) इति विष्कम्भकः । (ततः प्रविशति राजा विदूषकश्च ।) राजा— भृत्यानामविकारिता परिगता दृष्टा मतिर्मन्त्रिणां मित्राण्यप्युपलक्षितानि विदितः पौरानुरागोऽधिकम् । निर्व्यूढा रणसाहसव्यसनिता स्त्रीरत्नमासादितं निर्व्याजादिव धर्मतः किमिव न प्राप्तं मया बन्धनात् ॥ ६ ॥ नगरीम् । कुशाम्बेन राज्ञा निर्मिता कौशाम्बी । जर्जरीकृतं विह्वलतामापादितम् । घन- बन्धनेति । घनानां मेघानां बन्धनमुपरोधस्तस्मान्मुक्तः पक्षे घनं दृढं यत्प्रद्योतकृतं बन्धनं तस्मान्मुक्तः कन्यायास्तदाख्याराशेः ग्रहणान्प्रवेशात्परमनन्तरं तुलां तुलाराशिं प्राप्य । पक्षे कन्यायाः प्रद्योतनयाया वासवदत्ताया ग्रहणात्परपूर्व तुलामुत्कर्षं प्राप्य । अयं रविः । अधिगतं स्वधाम स्वदेशं कौशाम्बीति यावत् । स वत्सराज इव प्रतपति नितरां दहति । पक्षे प्रतापवान्भवति । श्लिष्टोपमा । पथ्यार्यावृत्तम् ॥ ५ ॥ विष्कम्भकः । वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तुविष्कम्भो मध्यपात्रप्रयोजितः । एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः ॥ इति लक्षणं दश- रूपके । शुद्धः केवलमध्यमैः । पात्रैः प्रयोगो भावेत्स्यात्संकीर्णो नीचमध्यमै ॥ आदौ विष्कम्भकं कुर्यान्नाटकेषु महाकविः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । इत्यान्यत्र च । भृत्यानामिति । भृत्यानामविकारिता विकृत्यभावः । स्वामि- भक्तिरिति यावत् । परिगता ज्ञाता । मन्त्रिणां मतिः प्रज्ञा दृष्टा । मित्राणि उपलक्षितानि यथार्थतया ज्ञातानि । पौराणां मयि अनुरागोऽपि अधिकं यथा तथा विदितः । रणे साहसं तत्र व्यसनितासोत्कण्ठेव्यूढा अनुष्ठिता । स्त्रीरत्नं वासवदत्तारूपमासादितम् । निर्व्या- जात्रिष्कपटत्वेन फलाभिसन्धिरहितेन वा अनुष्ठितात् धर्मत इव बन्धनान्मया किमिव न प्राप्तम् । सर्वमपि प्राप्तमित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ लक्षणमुक्तम् ॥ ६ ॥ १ अहह राज०; किं कृप०. २ परंतु गाढ०. ३-व्यंग्या. ४ इतजैकश्चन्द. ५ परा.

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक) · पृष्ठ 37, कुल 184 में से · BharatKosha