प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 38, कुल 184 में से
संदर्भ में पढ़ें६ प्रियदर्शिकायां विदूषकः—(सरोषम्।) भो वयस्य॑। कथं तमेव दास्याः पुत्रं बन्धनहतकं प्रशंससि। तदिदानीं विस्मृतम्। यत्तथा नवग्रह इव गजेपतिः खळखळायमानलोहशृङ्खलाबन्धप्रतिस्खलचरण, शून्यंमुखपुष्करपिशुनित- हृदयसंतापो रोषवशोलम्भितदीर्घगुर्हक्करस्फोटितधरणमार्गो रजनीष्वप्य- निद्रासुखमनुभूतोसि। (भो वयस्स। कहं तं एव्व दासीए उत्तं बन्धणहदभं पसंससि। तं दाणिं विसुमरिदं। जं तह णवग्गहो विअ गअवई खळखळायमाणलोह- सिङ्खलाबन्धपडिस्खलन्तचरणो शुण्णमुखपुण्डरीकपिसुणिदहिअअसंतावो रोसवसुम्भिददीह- गुरुउक्करप्फोडिअभरणिमग्गो रअणीसु वि अहिगअबहु असुहुदोसि।) राजा—वसन्तक दुर्जनः खल्वसि। पश्य। दृष्टं चारैकमन्धकारगहनं नो तन्मुखेन्दुद्युतिः। पीडा ते निगलस्वनेन मधुरास्तस्या गिरो न श्रुताः। क्रूरा बन्धनरक्षिणोऽस्य मनसि स्निग्धाः कटाक्षा न ते दोषान्पश्यसि बन्धनस्य न पुन प्रद्योतपुत्र्या गुणान्॥७॥ विदूषकः—(सगर्वम्।) भो। यदि तावद्बन्धनं सुखनिबन्धनं भवति विदूषक -नायकसहायान्यतम। तल्लक्षणम्-कुसुमवसन्ताद्यभिध कर्मवपुर्वेशभाषाद्यै। हास्यकर कलहरतिर्विदूषक स्यात्स्वकर्मश॥ इति। विस्मृतं विमिति शत्रु.। नैतद्विस्मर्तुं शक्यमिति भाव। खळललायमान तथाशब्दं कुर्वन् य लोहशृङ्खलाबन्धस्तेन परिस्खलन्तो चरणौ यस्य स। उभयत्र समानम्। शून्य वन्यमुखपुष्कर मुखकमल तेन पिशुनित सूचितो हृदयसन्तापो येन। पक्षे मुखपुष्कर शुण्डाग्रम्। रोषवशेन कोपाधीनतयोल्लोभावेनेति यावत्। उत्तम्भित्या दर्शितैव वा। गुरुन् स्थूलं करो हस्त शुण्डा च तेन स्फोटितो धरणीमार्गो येन। दृष्टमिति। अन्धकारेण गहन निविडं चारकं कारागृहं त्वया दृष्टम्। मनावष्टितमित्यर्थ। 'चारकं बन्धनालय' इति वैजयन्ती। तस्या वासवदत्ताया मुखेन्दुद्युति वदनचन्द्रकान्ति नो न दृष्टा। निगलस्वनेन शृङ्खलाशब्देन ते पीडा। मधुरास्तस्या गिर भाषितानि न श्रुता। अथ क्रूरा बन्धन रक्षिण कारागृहक्षका तव मनसि स्थिता। न ते तादृशा स्निग्धा स्नेहपूर्णा कटाक्षा नयनप्रान्तविलोकितानि मनसि स्थिता गोचरीभूता। एव बन्धनस्य दोषान् पश्यसि न पुन प्रद्योतपुत्र्या वासवदत्ताया गुणान् पश्यसि। अवधारयसीत्यर्थ। बहुगुण समुदाये अल्पदोषा मज्जन्तीति भाव। शार्दूलविक्रीडितं वृत्तम्। लक्षणमुक्तपूर्वम्॥७॥ १ वृत्त (एव) २ (गजेन्द्रानी) विस्वर (विद्यमेवहि). ३ पुष्यन्ति (तह्रपड) ४ अ०प०- डुस्करपिशुनरुहु० (शुण्णमुखपुक्खरपिटणिज्जन्तहि०) ५ डिरविगतपयनिष्ठूह (अहिगव्वरणि० डिशो) ६ अनुवाचषसि (अणुवाघेओ), निद्रासुखम न अभोसी (णिद्दासह ण पत्तेसि) ७ चारुकं, ८ निगल०धन सुखबन्धन (निअल० सुह०)