प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 39, कुल 184 में से
संदर्भ में पढ़ें; प्रथमोऽङ्कः । ७ तत्कस्मात्त्वं दृढवर्मा बद्ध इति कलिङ्गराजस्योपरि रोषं बध्नासि । ( भो । जइ दाण धम्मव्वणं सुहणिवन्धणं होइ ता कीस तुमं दिढवम्मा बद्वोत्ति कलिङ्गरणो उवरि रोसं बन्धेसि । ) राजा—( विहस्य । ) धिङ्मूर्ख । न खलु सर्वो वत्सराजो य एवं वासवदत्तामवाप्य बन्धनान्निर्यास्यति । तदास्तां तावदियं कथा । विन्ध्य- केतोरुपरि बहून्यहानि विनयसेनस्य प्रेषितस्य । न चाद्यापि तत्सकाशा- त्कश्चिदागतः । तदाहूयतां तावदमात्यो रुमण्वान् । तेन सह किंचि- दाल्पितुमिच्छामि । ( प्रविश्य । ) प्रतीहारी—जयतु जयतु देवः । एष खलु विनयसेनोऽमात्यो रुम- ण्वानपि प्रतीहारभूमिमुपस्थितौ । ( जेदु जेदु देव्वो । एसो क्खु विजयसेणो अमच्चो रुमण्वो वि पडिहारभूमिं उवट्ठिदो । ) राजा—त्वरितं प्रवेशय तौ । प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि ।) (इतिनिष्क्रान्ता ।) ( ततः प्रविशति रुमण्वान्विजयसेनश्च ) रुमण्वान्—( विचिन्त्य । ) तत्क्षणमपि निष्क्रान्ताः कृतदोषा इव विनापि दोषेण । प्रविशन्ति शङ्कमाना राजकुलं प्रायशो भृत्याः ॥ ८ ॥ ( उपसृत्य । ) जयतु देवः । राजा—( आसनं निर्दिश्य । ) रुमण्वन् । इत आस्यताम् । रुमण्वान्—( सस्मितमुपविश्य । ) एष खलु जितविन्ध्यकेतुर्विजयसेनः प्रणमति । ( विजयसेनस्तथा करोति । ) राजा—( सादरं परिष्वज्य । ) अपि कुशली भवान् । विजयसेनः—अद्य स्वामिनः प्रसादात् । राजा—विनयसेन उपविश्यताम् । सुखनिवन्धनं सुप्रहृष्टं । तत्क्षणमिति । भृत्या राजसेवकाः तत्क्षणं तस्मिन्नेव क्षणे नृपतिसकाशान्निष्क्रान्ता निर्गता अपि दोषेण विनापि कृतदोषाः कृतापराधा इव शङ्कमाना सभयाः राजकुलं प्रविशन्ति । स्वगतोक्तिः । आर्या छन्दः ॥ ८ ॥ १ उद्वहसि (उच्छहसि). २ दिवसानि ३ आहूयताम०. ४ विन्ध्यकेतोर्विजेता. ५ स्थीयताम्