भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 40, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 40

९ प्रियदर्शिकायां ( विजयसेन उपविशति । ) राजा—विजयसेन कथय विन्ध्यकेतोर्वृत्तान्तम् । विजयसेनः—देव किमपरं कथयामि । यादृशः स्वामिनि कुपिते । राजा—तथापि विस्तरतः श्रोतुमिच्छामि । विजयसेनः—देव श्रूयताम् । इतो वयं देवपादादेशाद्यथादिष्टेन करितुरगपदातिसैन्येन महान्तमप्यध्वानं दिवसत्रयेणोल्लङ्घ्य प्रभातवेला- यामतर्किता एव विन्ध्यकेतोरुपरि निपतिताः स्मः । राजा—ततस्ततः । विजयसेनः—ततः सोऽप्यस्मद्बलतुमुलकलकलावकर्णनेन प्रतिबुद्धः केसरीव विन्ध्यकन्दरान्निर्गत्य विन्ध्यकेतुरनपेक्षितबलवाहनो यथासंनि- हितकतिपयसहायः सहसा स्वनामोद्घोषयन्नस्मानभियोद्धुं प्रवृत्तः । राजा—(हर्षमन्तर्गतमवलोक्य सस्मितम् ।) शोभितं विन्