प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished184 पृष्ठ
पृष्ठ 41, कुल 184 में से
संदर्भ में पढ़ेंपृष्ठ 41
Here is the complete, line-by-line transcription of the Sanskrit drama page in Unicode Devanagari:
प्रथमोऽङ्कः । ९ सर्वत्रोत्सृष्टसर्वप्रहरणनिवहस्तूर्णमुत्खाय खङ्गं पश्चात्कर्तुं प्रवृत्तः करिकरकदलीकाननच्छेदलीलाम् ॥ ९ ॥ एवं बलं त्रितयमाकुलमेक एव कुर्वन्कृपाणकिरणच्छुरितांसकूटः । शस्त्रप्रहारशतजर्जरितोरुवक्षाः श्रान्तोऽचिराद्विनिहतो युधि विन्ध्यकेतुः ॥ १० ॥ राजा—रुमण्वन् ! सत्पुरुषोचितं मार्गमनुगच्छतो यत्सत्यं व्रीडिता इव वयं विन्ध्यकेतोर्मरणेन । रुमण्वान्—देव त्वद्विधानामेवं गुणैकपक्षपातिनां रिपोरपि गुणाः प्रीतिं जनयन्ति । राजा—विजयसेन अप्यस्ति विन्ध्यकेतोरपत्यं यत्रास्य परितोषस्य फलं दर्शयामि । विजयसेनः—देव इदमपि विज्ञापयामि । एवं सबन्ध