भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 43, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 43

द्वितीयोऽङ्कः । ११ छायाचक्रं तरूणां हरिणशिशुरुपैत्यालवालाम्बुलुब्धः सद्यस्त्यक्त्वा कपोलं विशति मधुकरः कर्णपालीं गजस्य ॥१२॥ रुमण्वन् । उत्तिष्ठोत्तिष्ठ । प्रविश्याभ्यन्तरमेव वृत्तयथोचितक्रियाः सत्कृत्य विनयसेनेन कलिङ्गोच्छित्तये प्रेषयामः । ( इति निष्क्रान्ताः सर्वे । ) इति प्रथमोऽङ्कः ॥ ॥ द्वितीयोऽङ्कः ॥ ( ततः प्रविशति विदूषकः । ) विदूषकः—ननु भणितोऽस्मीन्दीवरिकया यथा-आर्य उपवासनियम- स्थिता देवी वासवदत्ता स्वस्तिवाचननिमित्तं शब्दयैतेति । तद्यावद्धारा- गृहोद्यानदीर्घिकायां स्नात्वा देवीपार्श्वं गत्वा कुक्कुटवादं करिष्यामि । अन्यथा कथमस्माभिः सदृशा ब्राह्मणा राजकुले प्रतिग्रहं कुर्वन्ति । ( नेपथ्याभिमुखमवलोक्य ) कथमेष प्रियवयस्योऽद्य देव्या विरहोत्कण्ठाविनो- दननिमित्तं धारागृहोद्यानमेव प्रस्थितः । तद्यावद्वयस्येन सहैव गत्वा यथो- दितमनुष्ठास्यामि । ( णं भणिदोम्हि इन्दीवरिआए जह अज्ज उववासाणियमट्ठिदा देवी वासवदत्ता सोत्थिवाअणणिमित्तं सद्दावेदिति । ता जाव धाराघरउज्जाणदीर्धिआए ण्हाइअ देवीपासं गदुअ कुक्कुटवादं करिस्सं । अण्णहा कहं अह्राणं सरिसा बह्मणा राअकुले पडिग्गहं करेन्ति । कहं एसो पिववयस्सो अज्ज देवीए विरहुक्कण्ठाविणोअणा- णिमित्तं धाराघरउज्जाणं एव्व पट्टिदो । ता जाव वअस्सेण सह एव्व गदुअ जहोद्दिदं अणुचिट्ठिस्सं । ) छत्राभावातपनकरं तनोति विस्तारयति । हरिणशिशुः आ समन्तात् लमान् जलस्रवान् आलतीत्यालवालम् । तस्मिन् यदम्बु तत्र लुब्धः सन् तरूणां छायाचक्रमुपैति । मधुकरश्च गजस्य कपोलं सद्यः त्यक्त्वा कर्णपालीं श्रोत्रपुटं विशति । छायार्थ- मित्यर्थः । स्वभावोक्तिः । स्रग्धरा वृत्तम् ॥ १२ ॥ ततः प्रविशतीति । स्वस्तिवाचनं स्वस्तिवाचनार्थं मन्त्रेणायनम् । शब्दायेत आह्वयेदित्यर्थः । कुक्कुटवादं दम्भार्थं वेदमन्त्रानपि उच्चैः पठनम् । कुक्कुटोन्नतवादः स्यात् इति मेदिनी । उत्कण्ठा अभिलाषपूर्वा स्मृतिः । सर्वेन्द्रियसुखास्वादे यत्रास्तीत्या- भिसम्बते । तत्प्राप्तीच्छां ससङ्कल्पा मुद्कण्ठां कवयो विदुः ॥ इति तल्लक्षणम् । तस्या विनोद- नमरण्यनम् । धारागृहं धारायन्त्रोपेतं गृहं धारागृहं धारागृहयुक्तमुद्यानं धारागृहोद्यानम् । १ वृत्ततयोचित ०, २ शब्दापयेत्, ३ यथोदितं ( जहोद्दिदं.)