प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 46, कुल 184 में से
संदर्भ में पढ़ें१४ प्रियदर्शिकायां सप्तपर्णपादपः । ( भो वयस्स । एदं पि दाव पेक्ख पेक्ख । जो एसो अविरलपडन्त- कुसुमणिअरो घन वि पतन्तरगलन्तवरिसावसाणसलिलबिन्दू विअ लक्खीअदि सत्तवण्णपाअवो । ) राजा —वयस्य सम्यगुत्प्रेक्षितम् । नह्येव सदृशं जलदसमयस्य । तथाहि । बिभ्राणा मृदुतां शिरीषकुसुमश्रीहारिभिः शाद्वलैः -------- कल्पितकृत्रिमा मरकतक्षोदैरिच क्षालितैः । एषा संप्रति बन्धनाद्विगलितैर्बन्धूकपुष्पोत्करै- रद्यापि क्षितिरिन्द्रगोपकशतैश्छन्नेव संलक्ष्यते ॥ २ ॥ ( ततः प्रविशति चेटी । ) चेटी — आज्ञाप्तास्मि देव्या वासवदत्तया । हञ्जे इन्दीवरिके अद्य मयागस्त्यमहर्षयेऽर्घ्यो दातव्यः । तद्गच्छ त्वम् । शेफालिकाकुसुममालां लघु गृहीत्वागच्छेति । एषाप्यारण्यिका धारागृहोद्यानदीर्घिकायां यावदेव विकसितानि कमलानि नास्ताभिलाषिणा सूर्येण मुकुलाय्यन्ते तावदेव शीघ्रमवचित्यागच्छत्विति । एषा तपस्विनी तां दीर्घिकां न जानाति । तद्गृ- हीत्वा तां गमिष्यामि । ( नेपथ्याभिमुखमवलोक्य । ) ईत इत आरण्यिके एहि । ( आणत्ताह्मि देवीए वासविदत्ताए । हंजे इन्दीवरिए । अज्ज मए भगवतिमहेसिणो अग्घो दादव्वो । ता गच्छ तुमं । सेहालिआकुसुममालं लहु गेण्हिअ आअच्छेति । एसावि आरण्णिआ धाराघरउज्जाणदीहिआए जाव एव्व विआसिआई कमलाई ण अत्थाहिला-
बिभ्राणेति । शिरीषकुसुमानां श्रियं शोभां हरन्तीति तैः शाद्वलैः शाद्वलहरितप्रदेशै मृदुतां कोमलतां बिभ्राणा । क्षालितैः निर्धौतैः मरकतक्षोदै मरकतखण्डैः सदृशत्वादङ्गे शमित- कुट्टिमा इव स्थिता । एषा भूमिः संप्रति बन्धनाद्विगलितैः बन्धूकपुष्पाणामुत्करैः पुञ्जै- रद्यापि इन्द्रगोपकशतैः छन्ना इव लक्ष्यते । शार्दूलविक्रीडितं वृत्तम् ॥ २ ॥ हञ्जे दूति चेटीं प्रति सम्बोधनम् । 'हण्डे हञ्जे हलाह्वाने नीचा चेटीं सखीं प्रति' । इत्यमरः । अगस्त्य महर्षये । अत्र—अभासे भास्वरे कन्यां शेषभूतैस्तिथिर्दिनै । अर्घ्यं दद्यादगस्त्याय गौडदेश- निवासिन ॥ इति ब्रह्मवैवर्ते । भीमपराक्रमोप-यस्तु भाद्रपदस्यान्त उदिते कलशोद्भवे । अर्घ्यं दद्यादगस्त्याय सर्वान्कामांल्लभेत स ॥ इति । पद्मद्वयमुद्धृतं श्रीविष्णुसूरिभिः । अरण्ये भवा आरण्यिका । 'शरण्यान्मनुष्ये' इत्यनेनारण्यशब्दाद्वुन् । 'प्रत्ययस्थात्कात्०' इति इत्त्वम् । मुकुलाय्यन्ते मुकुलवदाचरन्ति मुकुलायन्ते तथा क्रियन्ते । सङ्कोच्यन्ते इत्यर्थः ।
१ सम्यगुत्प्रेक्षितं वयस्येन । अत्र हि बद्धेव २ अर्घ्यं दातव्यम् ३ पुन्ना ने त०, ४ याव- देव सरता० सूर्येण न मुकुलाय्यन्ते कमलानि ( जाव एव्व अरथा० ण मुउडलाविज्जन्ति कमलाई) तावदेवावचित्य, ५ मय, आरण्यि ६ इत एहि आ