भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 46, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 46

१४ प्रियदर्शिकायां सप्तपर्णपादपः । ( भो वयस्स । एदं पि दाव पेक्ख पेक्ख । जो एसो अविरलपडन्त- कुसुमणिअरो घन वि पतन्तरगलन्तवरिसावसाणसलिलबिन्दू विअ लक्खीअदि सत्तवण्णपाअवो । ) राजा —वयस्य सम्यगुत्प्रेक्षितम् । नह्येव सदृशं जलदसमयस्य । तथाहि । बिभ्राणा मृदुतां शिरीषकुसुमश्रीहारिभिः शाद्वलैः -------- कल्पितकृत्रिमा मरकतक्षोदैरिच क्षालितैः । एषा संप्रति बन्धनाद्विगलितैर्बन्धूकपुष्पोत्करै- रद्यापि क्षितिरिन्द्रगोपकशतैश्छन्नेव संलक्ष्यते ॥ २ ॥ ( ततः प्रविशति चेटी । ) चेटी — आज्ञाप्तास्मि देव्या वासवदत्तया । हञ्जे इन्दीवरिके अद्य मयागस्त्यमहर्षयेऽर्घ्यो दातव्यः । तद्गच्छ त्वम् । शेफालिकाकुसुममालां लघु गृहीत्वागच्छेति । एषाप्यारण्यिका धारागृहोद्यानदीर्घिकायां यावदेव विकसितानि कमलानि नास्ताभिलाषिणा सूर्येण मुकुलाय्यन्ते तावदेव शीघ्रमवचित्यागच्छत्विति । एषा तपस्विनी तां दीर्घिकां न जानाति । तद्गृ- हीत्वा तां गमिष्यामि । ( नेपथ्याभिमुखमवलोक्य । ) ईत इत आरण्यिके एहि । ( आणत्ताह्मि देवीए वासविदत्ताए । हंजे इन्दीवरिए । अज्ज मए भगवतिमहेसिणो अग्घो दादव्वो । ता गच्छ तुमं । सेहालिआकुसुममालं लहु गेण्हिअ आअच्छेति । एसावि आरण्णिआ धाराघरउज्जाणदीहिआए जाव एव्व विआसिआई कमलाई ण अत्थाहिला-


बिभ्राणेति । शिरीषकुसुमानां श्रियं शोभां हरन्तीति तैः शाद्वलैः शाद्वलहरितप्रदेशै मृदुतां कोमलतां बिभ्राणा । क्षालितैः निर्धौतैः मरकतक्षोदै मरकतखण्डैः सदृशत्वादङ्गे शमित- कुट्टिमा इव स्थिता । एषा भूमिः संप्रति बन्धनाद्विगलितैः बन्धूकपुष्पाणामुत्करैः पुञ्जै- रद्यापि इन्द्रगोपकशतैः छन्ना इव लक्ष्यते । शार्दूलविक्रीडितं वृत्तम् ॥ २ ॥ हञ्जे दूति चेटीं प्रति सम्बोधनम् । 'हण्डे हञ्जे हलाह्वाने नीचा चेटीं सखीं प्रति' । इत्यमरः । अगस्त्य महर्षये । अत्र—अभासे भास्वरे कन्यां शेषभूतैस्तिथिर्दिनै । अर्घ्यं दद्यादगस्त्याय गौडदेश- निवासिन ॥ इति ब्रह्मवैवर्ते । भीमपराक्रमोप-यस्तु भाद्रपदस्यान्त उदिते कलशोद्भवे । अर्घ्यं दद्यादगस्त्याय सर्वान्कामांल्लभेत स ॥ इति । पद्मद्वयमुद्धृतं श्रीविष्णुसूरिभिः । अरण्ये भवा आरण्यिका । 'शरण्यान्मनुष्ये' इत्यनेनारण्यशब्दाद्वुन् । 'प्रत्ययस्थात्कात्०' इति इत्त्वम् । मुकुलाय्यन्ते मुकुलवदाचरन्ति मुकुलायन्ते तथा क्रियन्ते । सङ्कोच्यन्ते इत्यर्थः ।


१ सम्यगुत्प्रेक्षितं वयस्येन । अत्र हि बद्धेव २ अर्घ्यं दातव्यम् ३ पुन्ना ने त०, ४ याव- देव सरता० सूर्येण न मुकुलाय्यन्ते कमलानि ( जाव एव्व अरथा० ण मुउडलाविज्जन्ति कमलाई) तावदेवावचित्य, ५ मय, आरण्यि ६ इत एहि आ