भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 45, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 45

द्वितीयोऽङ्कः । १३ विदूषकः-भो एहि गच्छावः । ( परिक्रम्यावलोक्य च । ) भो वयस्य पश्य पश्य । अविरतपतद्विविधकुसुमसुकुमारशिलातलोत्सङ्गस्य परिमल- निलीनमधुकरभरभग्नबकुलमालतीलतामालकस्य कमलगन्धग्रहणेोद्दाममारुत- पर्यस्तबुद्धबन्धूकबन्धनस्याविरलतमालतरुपिहितातपप्रकाशस्यास्य धारागृ- होद्यानस्य सश्रीकताम् । (भो एहि गच्छह्म। भो वयस्स पेक्ख पेक्ख। अविरदपडन्त- विविधकुसुमसुउमारसिलाअलुच्छङ्गस्स परिमलणिलीणमहुअरभरभग्गबउलमालइल- जालअस्स कमलसन्धगहणोद्दाममारुदपुञ्जन्तेणेरण अविरलतमालतरुपि- हिदादवप्पआसस्स अस्स धाराघरउज्जाणस्स सस्सरीअत्तं ।) राजा - वयस्य साध्वभिहितम् । अत्र हि । वृन्तैः क्षुद्रप्रवालस्थगितमिव तलं भाति शेफालिकानां गन्धः सप्तच्छदानां सपदि गजमदामोदमोहं करोति । एते चोन्निद्रपद्माच्युतबहुलरजःपुञ्जपिङ्गाङ्गरागा गायन्त्यव्यक्तवाचः किमपि मधुलिहो वारुणीपानमत्ताः ॥२॥ विदूषकः-भो वयस्य एतदपि तावत्पश्य पश्य । य एषोऽवि- रलपतत्कुसुमनिकरोऽद्यापि पत्रान्तरगलद्वर्षावसानसलिलबिन्दुरिव लक्ष्यते अविरतं यथा तथा पतन्ति यानि विविधानि कुसुमानि तैः सुकुमारः सुखस्पर्शः मनोहोरो वा शिलातलस्य उत्सङ्गो मध्यप्रदेशो यत्र तत् ०त्सङ्ग तस्य । परिमलेन निलीनाथ ते मधुकराश्च तेषां भरेण भग्नानि बकुलानां मालतीलतानां जातिलतानां जालकानि पुष्पगुच्छा यस्मिंस्तस्य । कमलानां गन्धस्य ग्रहणेन उद्दामो उत्कटो यो मारुतस्तेन पर्यवबुद्धानि विकसितानि बन्धूकानां बन्धूकपुष्पाणां बन्धनानि वृन्तानि यस्मिन् तस्य । अविरलाश्च ते तमालतरवश्च तैः पिहितो निवारित आतपप्रकाशः सूर्य्यालोको यस्मिन् तस्य । वयस्य- वयसा तुल्य वयस्यः । 'नोवयोधर्म' इति यत् । वृन्तैरिति । शेफालिकानां निर्गुण्डीकुसुमानां वृन्तैः बन्धनैः तलं भूमितलं क्षुद्रैः प्रवालैः अभिनवैर्विद्रुमखण्डैः स्थगितमावृतमिव भाति । सप्तच्छदानां गन्धः सपदि तत्क्षणं गजमदस्य य आमोदः परिमलस्तस्य मोहं भ्रान्तिं तनोति जनयति । उन्निद्रेभ्यो विकसितेभ्यः पद्मेभ्यः च्युतः बहुलः रजःपुञ्जः तेन पिङ्गः पीतवर्णः अङ्गरागः अङ्गवर्णो येषां ते । बहलरजःपुञ्ज एव पीतोऽङ्गरागो येषामिति वा । वारुणीपानेन पुष्परसमद्यपानेन मत्ता अत एव अव्यक्तवाचः एते मधुलिहो मधुकराश्च किमपि गायन्ति । उत्प्रेक्षाभ्रान्तिमत्स्वभावोक्तीनां संसृष्टिः । स्रग्धरा वृत्तम् ॥ २ ॥ अविरलेति । अविरलं निरन्तरं यथा तथा पतन्कुसुमनिकरो यस्य सः । अद्यापि पत्रान्तरेभ्यो गलन्तः वर्षावसानसमयसलिलबिन्दवो यस्य स इव लक्ष्यते । तं पश्येति सम्बन्धः । १ बहवो ( पहणुद्दा० ) । २ प्रतिबुद्ध ( पडिबु० ) । ३ पट्टल ४ काण्डविहुरा, ० गन्धवश्च ( णिअरो भग्गव). ६ वसानसमयसादि० ( वसाणसवअ० ) । २