प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 51, कुल 184 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । १९ अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरपटाद्द्रष्टव्यतां कामपि अङ्गाच्चन्द्रमसस्तनोरिव करस्पर्शात्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम् ॥ ७ ॥ आर०—( भ्रमरबाधां नाटयन्ती । ) हा धिक् हा धिक् । एते खल्वपरे परित्यज्य कमलिनीं नीलोत्पलवनानि समापतन्तो निपुणतरं बाधमाना आयासयन्ति मां दुष्टमधुकराः । (उत्तरीयेण मुखं पिधाय सभयम् ।) हला इन्दीवरिके परित्रायस्व मां परित्रायस्व माम् । एते खलु दुष्टमधु- कराः परिभविष्यन्ति । ( हद्धि हद्धि । एदे क्खु अवरे परिच्चइअ कमलिणीं णीलुप्पलवण्णाई समापडन्ता णिउणदरं बाधन्ता आआसअन्ति मं दुट्ठमहुअरा । हला इन्दीवरिए परित्ताएहि मं परित्ताएहि मं । एदे क्खु दुट्ठमहुअरा परिभविस्सन्ति ।) विदूषकः—भो वयस्य पूर्णास्ते मनोरथाः । यावदेव गर्भदास्याः सुता नागच्छति तावदेव त्वमपि तूष्णीको भूत्वोपसर्प । एषापि सलिल- शब्दसंनितेन पदसंचारेणेन्दीवरिकागच्छतीति ज्ञात्वा त्वमेवावलम्बिष्यते । ( भो वयस्स पुण्णा दे मणोरहा । जाव एव्व गब्भदासीए सुदा ण आगच्छदि दाव एव्व तुमं वि तुष्णीको भविअ उवसप्प । एसा वि सलिलसद्दसंणिदेण पअसंच