प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 50, कुल 184 में से
संदर्भ में पढ़ें१८ प्रियदर्शिकाया आर०—( सविषादम् । ) किं देव्या मन्त्रितम् । ( देवाए मन्त्रिदं । ) चेटी—एतत् । तदैषाहं महाराजेन भणिता यथा—यदैषा विन्ध्य- केतुदुहिता वरयोग्या भविष्यति तदाहं स्मारयितव्य इति । तत्साम्प्रतं महाराजं स्मारयामि येनास्या वरचिन्तोपर्याकुलो भविष्यति । ( एदं । तदा एसा अ० महाराएण भणिदा जह जदा एसा विज्झकेदुदुहिदा वरजोग्गा भवि- स्सदि तदा अहँ सुमराइदव्वोत्ति । ता संपदं महाराअं सुमरावेमि जेण से वरचिन्ता- पवाउरो भविस्सदि । ) राजा—( सदर्पम् । ) इयं सा विन्ध्यकेतोर्दुहिता । ( सानुतापम् । ) चिरं मुषिता स्मो वयम् । वयस्य निर्दोषदर्शना कन्यका खल्वियम् । विश्रब्धमिदानीं पश्याम । आर०—( सरोषं कर्णौ विधाय । ) तद्गच्छ त्वम् । न मम त्वयासंब- द्धप्रलापिन्या प्रयोजनम् । ( ता गच्छ तुमं । ण मे तुए असंबद्धपलाविणीए पओअणं । ) ( नेपथ्यस्था च पुष्पावचयं नाटयति । ) राजा—अहो सुतरां प्रकटीकृतमाभिजात्यं भीरतया । वयस्य धन्यः खल्वसौ य एतदङ्गस्पर्शसुखभाजनं भविष्यति । ( आरण्यिका कमलावचयं नाटयति । ) विदूषकः—भो वयस्य पश्य पश्य । आश्चर्यमाश्चर्यम् । एषा सलिलचलत्करपल्लवप्रभावितृतेनोपहसितशोभं करोति कमलवनमवचि- न्वती । ( भो वयस्स पेक्ख पेक्ख । अच्चरिअं अच्चरिअं । एसा सलिलचलन्तकर- पल्लवप्पहावित्थिदेण ओहासिअसोहं करेदि कमलवणं अवचिणन्ती । ) राजा—वयस्य सत्यमेवैतत् । पश्य । रोषादित्यर्थः । सानुतापमनुतापेन पश्चात्तापेन सहितं यथा तथा । विश्रब्धं यथा तथा । असम्बद्धं संदर्भरहितमनर्थकमिति यावत् । यदा वरयोग्या भविष्यतीत्यादि प्रलपतीति तथा तथा । एषा नर्मोक्तिः । एवं शाकुन्तलेऽपि 'इमामसम्बद्धप्रलापिनीं प्रियंवदामाय्यायै गौतम्यै निवेदयिष्यामी'ति शकुन्तलावचनम् । एषा कमलानि अवचिन्वन्ती सलिले जलं चलन्ती । करपल्लवस्य प्रभा तस्या विस्तृतेन विस्तारेण प्रसरणेनेत्यर्थः । १ तदाह म० । यथा—यैषा अ० द० । २ तदा ब० ( ना० ए० ) ३ चिरमु० ४ एत- न्नास्ति क्वचित् ५ दिग्रुटितेन ( निग्रुटितेन ) ६ ०मज्जन्त ७ स्वल्प