प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 49, कुल 184 में से
संदर्भ में पढ़ेंपातालाद्भुवनावलोकनपरा किं नागकन्योत्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी । मूर्ता स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं केयं हस्ततलस्थितेन कमलेनालोक्यते श्रीरिव ॥ ६ ॥ विदूषकः—(निरूप्य ।) एषा खलु देव्याः परिचारिकेन्दीवरिका । तद्गुल्मान्तरितौ भूत्वा पश्यावः । (एसा क्खु देवीए परिआरिआ इन्दीवरिआ । ता गुम्मन्तरिआ भविअ पेक्खह्म ।) (उभौ तथा कुरुतः ।) चेटी—(कमलिनीपत्रग्रहणं नाटयन्ती ।) आरण्यके अवचिनु त्वं पद्मानि । अहमप्येतस्मिन्नलिनीपद्मे शेफालिकाकुसुमान्यवचित्य देवीस- काशं गमिष्यामि । (आरणिए अवचुणु तुमं पदुमाईं । अहं वि एदस्सिं णलि- णीपत्तम्मि सेहालिआकुसुमाई अवचुणिअ देवीसआसं गमिस्सं ।) राजा—वयस्य संलाप इव वर्तते । तदवहिताः शृणुमः । कदा- चिदित एव व्यक्तीभविष्यति । (चेटी गमनं नाटयति ।) आर०—हला इन्दीवरिके । न शक्नोमि त्वया विना मुहूर्तम्प्यत्रा- सितुम् । (हला इन्दीवरिए ण सक्कुणोमि तुए विणा मुहुत्तंवि एत्थ आसिदुं ।) चेटी—(विहस्य ।) यादशमद्य मया देव्या मन्त्रितं श्रुतं तादृशेन चिरमेव मया विना त्वयासितव्यम् । (जादिसं अज्ज मए देवीए मन्तिदं सुदं तारिसेण चिरं एव्व मए विणा तुए आसिदव्वं ।) तयोक्ता । पातालेति । भुवनस्य महीलोकस्यावलोकनपरा नागकन्यका पातालादुत्थिता किं स्यादिति वितर्क्य । नैतस्यादित्याशङ्क्येति । तन्मिथ्या खलु । मया दृष्टमेव हि । तस्मिन्पाताले ईदृशी लावण्यसम्पन्ना कन्यका कुतः । इह मूर्ता मूर्तिमती कौमुदी स्यात् । एतदपि न । तस्याः कौमुद्या दिवादर्शनं न घटते संभवति । केयं तर्हि सा हस्ततलस्थितेन कमलेन श्रीः इव आलोक्यते । सन्देहालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ६ ॥ यादृशं यत्प्रकारकम् । तद्विवाहसम्बन्धीति गूढम् । मन्त्रितं भाषितम् । तादृशेन तद्गु- १ दिवा. २ कुतस्त्यी०. ३ रिका आगच्छति (आअच्छइ). ४ एतद्वाक्यं बहुषु पुस्तकेषु. ५ तादृशं (तारिसं).