भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 57, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 57

मनोरमा—(सास्रम् ।) हा धिक् हा धिक् । अतिभूमिं गतोऽस्या- स्तपस्विन्या अनुरागः । तत्किमिदानीमत्र करिष्यामि । (हद्धि हद्धि । अदि- भूमिं गदो से तवस्सिणीए अणुराओ । ता किं दाणिं एत्थ करिस्सं ।) आर०—(साभिलाषम् ।) अयं स उद्देशो यस्मिन्मधुकैराया- स्यमानामवलम्ब्य महाराजेन समाश्वासितास्मि भीरु मा बिभीहीति । (अअं सो उद्देसो जस्सिं महुअरेहिं आआसिअन्ती ओलम्विअ महाराएण समस्सासिदम्हि भीरु मा भभाहिति ।) मनोरमा—(सहर्षम् ।) कथमेषापि दृष्टा महाराजेन । सर्वथास्त्यस्या जीवितस्योपायः । यावदुपसृत्य समाश्वासयाम्येनाम् । (सहसोपसृत्य ।) युक्तं नाम हृदयस्यापि लज्जितुम् । (कहं एसा वि दिट्ठा महाराएण । सव्वहा अत्थि से जीविदस्स उआओ । जाव उवसप्पिअ समस्सासेमि णं । जुत्तं णाम हिअअस्स वि लज्जिदुं ।) आर०—(संस्तब्धमात्मगतम् ।) हा धिक् हा धिक् । सर्वं श्रुत- मेतया । तदत्र युक्तमेव प्रकाशयितुम् । (प्रकाशं हस्ते गृहीत्वा ।) प्रिय- सखि मा कुप्य मा कुप्य । लज्जैवात्रापराध्यति । (हद्धि हद्धि । सव्वं सुदं एदाए । ता एत्थ जुत्तं एव्व पआसइदं । पिअसहि मा कुप्प मा कुप्प । लज्जा एव्व एत्थ अवरज्झदि ।) मनो०—(सहर्षम् ।) सखि अलं शङ्कया । एतन्म आचक्ष्व । सत्यमेव त्वं महाराजेन दृष्टा न वेति । (सहि अलं संकाए । एदं मे आअक्ख । सच्चं एव्व तुम्हं महाराएण दिट्ठा ण वेत्ति ।) आर०—(सलज्जमधोमुखी) श्रुतमेव प्रियसख्या सर्वम् । (सुदं एव्व पिअसहीए सव्वं ।) मनोरमा—यदि दृष्टा महाराजेन त्वं तदलं संतापितेन । स एवे- दानीं दर्शनोपायपर्याकुलो भविष्यति । (जइ दिट्ठा महाराएण तुम्हं ता अलं संताविदेण । सो एव्व दाणिं दंसणोवाअपज्जाउलो भविस्सदि ।) अतिभूमिं परां कोटिम् । तपस्विन्याः अनुकम्प्यायाः । वराक्या इत्यर्थः । हृदयस्यापि स्वहृदयादन्यतिरिक्ताया ममेत्यर्थः । आत्मगतं, प्रकाशं—सर्वश्राव्यं प्रकाश