प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 64, कुल 184 में से
संदर्भ में पढ़ें३२ प्रियदर्शिकाया जरातुरा सम्प्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् ॥ ३ ॥ भोः आज्ञापितोऽस्मि विमानिताशेषशत्रुसैन्येन यथार्थनाम्ना महासे- नेन समादिश्यतामन्तःपुरेषु यथा--भो वयमुदयनोत्सवमनुभवाम । अतो युष्माभिरुत्सवानुरूपवेशोज्ज्वलेन परिजनेन सह मन्मथोद्यानं गन्तव्यमिति । साङ्कृत्यायनी—(कञ्चुकिनं निर्दिश्य ।) राजपुत्रि प्रवृत्ता प्रेक्षा । दृश्यताम् । कञ्चुकी—तदेतेनादेशेन परिजनेन सह गन्तव्यमिति । न गृहीत- नेपथ्येनेति । कुतः । पादैर्नूपुरिभिर्नितम्बफलकैः शिञ्जानकाञ्चीगुणै- र्हारापादितकान्तिभिः स्तनतटैः केयूरिभिर्बाहुभिः । कर्णैः कुण्डलिभिः करैः सवलयैः सस्वस्तिकैर्मूर्धजै- र्देवीनां परिचारिकापरिजनोऽप्येतेषु संदृश्यते ॥ ४ ॥ न खलु किंचिदनापूर्वमनुष्ठेयम् । केवलं स्वाम्यादेश इति मत्वाऽहं समा- दिष्टस्तदाज्ञाशेषं राजपुत्र्यै निवेदयामि । (परिक्रम्यावलोक्य च ।) इयं प्रमादेभ्यो निवारयति । दण्डनीत्या अर्थशास्त्रानुसारेण प्रजा रक्षति च। दण्डनीतिनिरूपितस्तु दण्डेन नीयते चेद् दण्ड नयति वा पुनः । दण्डनीतिरिति ख्याता तान्त् सोल्लंघानतिवर्त्तते ॥ इति । श्लेषोपमालङ्कारः । वृत्तमुपजातिः । स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतना स्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति तल्लक्षणम् ॥३॥ विमानितानि तिरस्कृतान्यशेषाणां शत्रूणां सैन्यानि येन । महासेनश्चण्डमहासेन इत्यपरा भिध उज्जयिनीश्वरः । प्रेक्षा नृत्यम् । प्रेक्षाभीरीक्षणं नृत्यम् । इति हैमः । पादैरिति । नूपूराणि मञ्जीरा एषां विद्यन्ते इति नूपूरिणस्तैः पादैः । शिञ्जानः शब्दायमाना काञ्ची गुणा रसनाशृङ्खलानि येषां तेषु वा तैस्तथोक्तैः नितम्बफलकैः प्रशस्तनितम्बैः । हारै मुक्तासरैः आपादिता निर्मिता कान्तिर्येषां तादृशैः स्तनतटैः । केयूरिभिः अङ्गदसहितैः बाहुभिः । कुण्डलिभिः कुण्डलधारिभिः कर्णैः । सवलयैः कङ्कणयुक्तैः करैः सस्वस्तिकैः स्वस्तिकाख्यालङ्कारपरैः । स्वस्तिक मङ्गल द्रव्यार्पितयो वा तद्युक्तैः । मूर्धजैः केशपाशैः उपलक्षितः । देवीनां पूज्याया देव्याः । पूजार्थे बहुवचनम् । परिचारिकापरिजनः सेवकवर्गोऽपि एतेषु अन्तःपुरेषु दृश्यते । पूर्वमेव कृतेनेपथ्यो वर्त्तत इत्यर्थः । शार्दूल- विक्रीडितं वृत्तम् ॥ ४ ॥ १ एतादृशेन २ गृहीत० नास्त्यन्यत्र, ३ न स्वातन्त्र्यलज्जत ४ समादि०