प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 65, कुल 184 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ३३ सा वासवदत्ता वीणाहस्तया काञ्चनमालयानुगम्यमाना गन्धर्वशालां प्रविष्टा । यावदस्याः कथयामि । ( परिक्रामति । ). ( ततः प्रविशति गृहीतवासवदत्तानेपथ्यासन्नसंचारिणिका वीणाहस्ता काञ्चनमाला च । ) आर०—हला काञ्चनमाले कस्मात्पुनश्चिरयत्यद्यापि वीणाचार्यः । ( हला कञ्चणमाले कीस उण चिराअदि अज्ज वि वीणाआरिओ । ) — काञ्च०—भर्तृदारिके दृष्टस्तेनैक.उन्मत्तः । तस्य वचनं श्रुत्वा चित्रेण भावितोऽपहसंस्तिष्ठति । ( भट्टिदारिए दिट्ठो देण एक्को उम्मत्तो । तस्स वअणं सुणिअ चित्तेण भाविदो ओहसन्तो चिट्ठइ । ) आर०—( सहस्ततालं विहस्य । ) हञ्जे सुष्ठ्वेतं पृच्छति । सदृशाः सदृशे रमन्त इति द्वावप्युन्मत्तौ । ( हञ्जे सुट्ठ एदं पुच्छदि । सरिसा सरिसे रमन्तित्ति दुवे एत्थ उम्मत्ता । ) सांकृत्यायनी—राजपुत्र्याः सदृशमाकारं पश्याम्यस्यास्तादृशेना- कारेणावश्यं त्वदीयां भूमिकां संभावयिष्यति । कञ्चुकी—( उपसृत्य । ) राजपुत्रि देवस्त्वामाज्ञापयति । 'श्वोऽव- श्यमस्माभिर्वीणां वादयन्ती श्रोतव्या । तत्तवया नवतन्त्रीसज्जया घोषवत्या स्थेयमिति । आर०—आर्य यद्येवं लघु वीणाचार्यं विसर्जय । ( अय्य जइ एवं लहु वीणाआरिअं विसज्जेहि । कञ्चुकी—एष वत्सराजं प्रेषयामि । ( इति निष्क्रान्तः । ) आर०—काञ्चनमाले उपनय मे घोषवतीं यावदस्यास्तन्त्रीः परीक्षे । ( कञ्चणमाले उवणेहि मे घोसवदीं जाव से तंतीओ परिक्खेमि । ) ( काञ्चनमाला वीणामर्पयति । आरण्यिकोत्सङ्गे वीणां कृत्वा सारयति । ) ( ततः प्रविशति गृहीतवत्सराजनेपध्या मनोरमा । ) वासवदत्तात्र वासवदत्तावेषधारिणी आरण्यिका ज्ञेया । गंधर्वशाला प्रेक्षागृहम् । चित्रेण भावितो विस्मयहृतचित्तः । सहस्ततालं हस्तौ प्रताड्य । सदृशाः सदृशे इ०-सर्वैः समत्वेषु विधाविति । द्वावप्यप्रारम्भकौ । इति समानार्थं वचनं शकुन्तले । तादृशेन राजपुत्र्युचितेन । घोषवत्या वीणया सहितया । लघु शीघ्रम् । रामदत्तापरयो राजा रुक्मणोवस्थायाइ- १ चिरयतेद्य. २ सुणिअ तेण भाविट्ठओ हसन्तो ( भावितात्थों इसन् ). ३ संहृष्टह- स्तेन ( भणीअहि ) - रज्जन्तीति. ४ राजपुत्रि तादृशमाका०. :