भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 72, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 72

४२ प्रियदर्शिकायां हिंअए करिअ देवीए मन्तिदं । एदेण वि मुक्कचवडेण अण्णहा एव्व बुद्धिअ सव्वं आउलीकिदं ।) वासवदत्ता—( सरोषं हसन्ती ।) साधु मनोरमे साधु । शोभनं त्वया नर्तितम् । ( साधु मणोरमे साहु । सोहणं तुए णच्चिदं । ) मनो०—( सभयं कम्पमाना पादयोर्निपत्य ।) भट्टिनि न खल्वहम- त्रापराध्यामि । एतेन खलु हताशेन बलादलंकरणानि गृहीत्वा द्वार- स्थितेनेह निरुद्धा । न पुनर्मामाक्रन्दन्त्याः शब्दो मुरजनिर्घोषान्तरितः केनापि श्रुतः । (भट्टिणि ण हु अहं एत्थ अवराझामि। एदेण खु हदासेण बलादो अलंकारणाइं गेण्हिअ दुवारठिदेण इह णिरुद्धा । ण उण मह अक्कन्दन्तीए सद्दो मुरअंणि- ग्घोसान्तरिओ केण वि सुदो ।) वासवदत्ता—हञ्जे उत्तिष्ठ । ज्ञातं सर्वम् । वसन्तकः खल्वार- ण्यिकावृत्तान्तनाटके सूत्रधारः । ( हञ्जे उट्ठेहि । जाणिदं सव्वं । वसन्तओ क्खु आरण्णिआउत्तन्तणाडए सुत्तधारो ।) विदूषकः—स्वयमेव चिन्तय । क्वारण्यिका कुत्र वसन्तक इति । ( सअं एव्व चिन्तेहि । कहिं आरण्णिआ कहिं वसन्तओत्ति ।) वासवदत्ता—मनोरमे सुगृहीतं कृत्वैनमागच्छ तावत् । प्रेक्षणी- यमस्य पश्यामि । ( मणोरमे सुग्गहीदं करिअ णं आअच्छ दाव । पेक्खणीअं से पेक्खामि ।) मनो०—( स्वगतम् ।) इदानीं समाश्वसितास्मि ( विदूषकं करे बध्नाति । प्रकाशम् ।।) हताश इदानीमनुभावात्मनो दुर्नयस्य फलम् । ( दाणिं समस्ससिदम्हि । हदास दाणिं अणुभव अत्तणो दुण्णअस्स फलं । ) वासवदत्ता—( ससम्भ्रममुपसृत्य ।) आर्यपुत्र प्रतिहतमेतदमङ्गलम् । ( इति पादयोर्नीलोत्पलदामार्पयन्ती सोत्रासम् ।) मर्षयत्वार्यपुत्रो यन्मनोरमेति कृत्वा नीलोत्पलदामकेन बन्धितोऽसि । (अज्जउत्त पडिहदं एदं अमङ्गलं । मरिसेदु अज्जउत्तो जं मणोरमेत्ति करिअ णीलुप्पलदामएण बन्धविदोसि ।) ( आरण्यिका सम्भ्रममपसृत्य तिष्ठति ।)


आरण्यिकायाः वृत्तान्तो मुखेण समाधानं इत्यर्थे । स एव नाटकं तत्र सूत्रधारो योजक इत्यु- द्घाते सुव्यक्तम् । दुर्नयस्यानुष्ठितनीते । असमीक्ष्यकारिताया इत्यर्थं अन्वयदन्यथापरिणामि। १ मुक्कच(मुद्धवि०) , २ गए आक्रन्दन्तीएति ० इतिदो ( धान्तरितो ) ४ केण वि सद्दो ५ आअच्छ । ६ पेक्खंतं से पेक्खाम ७ अपनयति । ८ ( सोत्त्रासं ) मर्षयतु इत्यादि राजा वैलक्ष्यं नाटयति ' इत्येतस्य परस्तात् दृश्यते पुस्तकान्तरे । ज इत्येव तुर्ये इ या थ