प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 72, कुल 184 में से
संदर्भ में पढ़ें४२ प्रियदर्शिकायां हिंअए करिअ देवीए मन्तिदं । एदेण वि मुक्कचवडेण अण्णहा एव्व बुद्धिअ सव्वं आउलीकिदं ।) वासवदत्ता—( सरोषं हसन्ती ।) साधु मनोरमे साधु । शोभनं त्वया नर्तितम् । ( साधु मणोरमे साहु । सोहणं तुए णच्चिदं । ) मनो०—( सभयं कम्पमाना पादयोर्निपत्य ।) भट्टिनि न खल्वहम- त्रापराध्यामि । एतेन खलु हताशेन बलादलंकरणानि गृहीत्वा द्वार- स्थितेनेह निरुद्धा । न पुनर्मामाक्रन्दन्त्याः शब्दो मुरजनिर्घोषान्तरितः केनापि श्रुतः । (भट्टिणि ण हु अहं एत्थ अवराझामि। एदेण खु हदासेण बलादो अलंकारणाइं गेण्हिअ दुवारठिदेण इह णिरुद्धा । ण उण मह अक्कन्दन्तीए सद्दो मुरअंणि- ग्घोसान्तरिओ केण वि सुदो ।) वासवदत्ता—हञ्जे उत्तिष्ठ । ज्ञातं सर्वम् । वसन्तकः खल्वार- ण्यिकावृत्तान्तनाटके सूत्रधारः । ( हञ्जे उट्ठेहि । जाणिदं सव्वं । वसन्तओ क्खु आरण्णिआउत्तन्तणाडए सुत्तधारो ।) विदूषकः—स्वयमेव चिन्तय । क्वारण्यिका कुत्र वसन्तक इति । ( सअं एव्व चिन्तेहि । कहिं आरण्णिआ कहिं वसन्तओत्ति ।) वासवदत्ता—मनोरमे सुगृहीतं कृत्वैनमागच्छ तावत् । प्रेक्षणी- यमस्य पश्यामि । ( मणोरमे सुग्गहीदं करिअ णं आअच्छ दाव । पेक्खणीअं से पेक्खामि ।) मनो०—( स्वगतम् ।) इदानीं समाश्वसितास्मि ( विदूषकं करे बध्नाति । प्रकाशम् ।।) हताश इदानीमनुभावात्मनो दुर्नयस्य फलम् । ( दाणिं समस्ससिदम्हि । हदास दाणिं अणुभव अत्तणो दुण्णअस्स फलं । ) वासवदत्ता—( ससम्भ्रममुपसृत्य ।) आर्यपुत्र प्रतिहतमेतदमङ्गलम् । ( इति पादयोर्नीलोत्पलदामार्पयन्ती सोत्रासम् ।) मर्षयत्वार्यपुत्रो यन्मनोरमेति कृत्वा नीलोत्पलदामकेन बन्धितोऽसि । (अज्जउत्त पडिहदं एदं अमङ्गलं । मरिसेदु अज्जउत्तो जं मणोरमेत्ति करिअ णीलुप्पलदामएण बन्धविदोसि ।) ( आरण्यिका सम्भ्रममपसृत्य तिष्ठति ।)
आरण्यिकायाः वृत्तान्तो मुखेण समाधानं इत्यर्थे । स एव नाटकं तत्र सूत्रधारो योजक इत्यु- द्घाते सुव्यक्तम् । दुर्नयस्यानुष्ठितनीते । असमीक्ष्यकारिताया इत्यर्थं अन्वयदन्यथापरिणामि। १ मुक्कच(मुद्धवि०) , २ गए आक्रन्दन्तीएति ० इतिदो ( धान्तरितो ) ४ केण वि सद्दो ५ आअच्छ । ६ पेक्खंतं से पेक्खाम ७ अपनयति । ८ ( सोत्त्रासं ) मर्षयतु इत्यादि राजा वैलक्ष्यं नाटयति ' इत्येतस्य परस्तात् दृश्यते पुस्तकान्तरे । ज इत्येव तुर्ये इ या थ