भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 77, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 77

( ततः प्रविशति सोद्वेगासनस्था वासवदत्ता साङ्कृत्यायनी विभक्तश्च परिवारः । ) साङ्कृत्यायनी—राजपुत्रि अलमुद्वेगेन । नेदृशो वत्सराजः । कथमित्थंगतमपि भवत्या मातृपक्षपतिं विज्ञाय वत्सराजो निश्चिन्तं स्थास्यति । वासवदत्ता—( सास्रम् । ) भगवति अतिऋजुकेदानीं त्वम् । यस्य मया न कार्यं तस्य मदीयेन किं कार्यम् । भर्तुर्युक्तं ममेत- दान्विक्षितुम् । सा पुनर्न जानात्यद्यापि तादृशी न वासवदत्तेति । तत्र पुनरेष आरण्यिकावृत्तान्तः प्रत्यक्षः । तत्कथमेतद् भणसि । ( भअवदि अदिरुज्जुआ दाणिं तुमं । जस्स मए ण कज्जं तस्स ममकेरएण किं कज्जं । भट्टु- आए जुत्तं मम एदं आलिहिदुं । सा उण ण आणादि अज्जवि तारिसी ण वासवद- त्तेति । तत्थ उण एदं आरणिआए उत्तन्तं पच्चक्खं । ता कहं एदं भणासि । ) ⸺ साङ्कृत्यायनी—यत एव मे प्रत्यक्षं सत एव ब्रवीमि । तेन ननु कौमुदीमहोत्सवे त्वां हासयितुं तथा क्रीडितम् । वासवदत्ता—भगवति एतदत्र सत्यम् । तथा हासितास्मि येन भगवत्याः पुरतो लज्जया कथमपि तिष्ठामि । तत्किं तदीयया कथया । नन्वेनेनैव पक्षपातेनैतावतीं भूमिं नीतास्मि । ( इति रोदिति । ) ( भअवदि एदं एत्थ सच्चं । तह हासिदह्मि जेण भअवदीए पुरदो लज्जाए कहं वि चिट्ठामि । ता किं तकेरएण कहाए । णं एदेण एव्व पक्खवादेण एत्तिअं भूमिं णीदह्मि । ) साङ्कृत्यायनी—अलं राजपुत्रि रोदितेन । नेदृशो वत्सराजः । ( विलोक्य । ) अथवा प्राप्त एवायं यस्ते मन्युप्रमार्जनं करोति । वासवदत्ता—मनोरथा इदानीमेते भगवत्याः । ( मणोरहा दाणिं एदे भअवदीए । ) ( ततः प्रविशति राजा विदूषकश्च । ) राजा—वयस्य क इदानीमभ्युपायः प्रियां मोचयितुम् । विदूषकः—भो वयस्य मुञ्च विषादम् । अहं त उपायं कथयि- ष्यामि । ( भो वयस्स मुञ्च विसादं । अहं दे उवाअं कहेस्सं । ) प्रवेशोऽङ्कद्वयस्थाने नैष्क्रमप्रवेशिकैः ॥ इति । अतिऋजुका अतिमात्रेण सरलास्वभावा । एतदप्रजानानेत्यर्थः । मया न कार्यं ममेष्टकार्येऽपि आरण्यिका- संस्कारेणोपायादिति यावत् । आर्याया मम्मानु...रणणी तथानुदण्डमंजूषा। दृग्निमित्तस्य दृष्टसम्पदां कृच्छ्रेण । पक्षपातेन रजः पक्षपातेन । १ अतिऋजुका २ पूर्वोक्तं वदि... मातृपक्षीयस्य ( रत्न ) क०भ०, ३ अयं बन्ध०.