प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished184 पृष्ठ
पृष्ठ 79, कुल 184 में से
संदर्भ में पढ़ेंपृष्ठ 79
चतुर्थोऽङ्कः । ४९ तदेहि । देवीसकाशमेव गच्छावः । विदूषकः—भोः गच्छ त्वम् । अहं पुनरिदानीमेव बन्धनात्क- थमपि परिभ्रश्यागतोऽस्मि । तन्न गमिष्यामि । (भो गच्छ तुमं । अहं दाणि एव्व बन्धणादो कदं वि परिब्भंशिअ आअदोम्हि । तो ण गमिस्सं ।) राजा—(विहस्य कण्ठे गृहीत्वा बलान्निर्नेयति ।) मूर्ख आगम्यतामा- गम्यताम् । (परिक्रम्यावलोक्य च ।) इयं देवी दन्तवलभीमञ्चमध्यास्ते । यावदुपसर्पामि । (सत्वरमुपसर्पति ।) (वासवदत्ता सखेदमासनादुत्तिष्ठति ।) राजा— किं मुक्तासनमलं मयि संभ्रमेण नोत्थातुमित्थमुचितं मम तान्तमध्ये । दृष्टिम्रसादविधिमात्रहतो जनोऽय- मत्यादरेण किमिति क्रियते विलक्षः ॥