प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 81, कुल 184 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ५१ वर्त्ता न सं - - निर्दिष्टाक्रान्तमन्दं प्रतिदिनविरमद्वीरदासेरकौघे शश्वत्संशीर्यमाणद्विपतुरगनराणीकनिःशेषसैन्यम् । अद्य श्वो वा विभग्ने झटिति मम बलैः सर्वतस्तत्र दुर्गे २ सति बद्धं युद्धे हतं वा भगवति न चिराच्छ्रोष्यसि त्वं कलिङ्गम् ॥ ५ ॥ साङ्कृत्यायनी—राजपुत्रि प्रथमतरमेव भवत्याः कथितं मया त्यमप्रतिविधाय वत्सराजः स्थास्यतीति । वासवदत्ता—यद्येवं प्रियं मे । ( जइ एवं पिअं मे । ) ( प्रविश्य । ) प्रतीहारी—जयतु जयतु भर्ता । एष खलु विनयसेनो दृढवर्मक- -ञ्चुकिसहितो हर्षसमुत्फुल्ललोचनः प्रियं निवेदयितुकामो द्वारे तिष्ठति । जेदु जेदु भट्टा । एसो क्खु विअअसेणो दिढवम्मकञ्चुइसहिदो हरिससमुप्फुल्ललोअणो पिअं णिवेदिदुकामो दुवारे चिट्ठइ । ) वासवदत्ता—( सस्मितम् । ) भगवति यथा तर्कयामि परितोषि- -तास्म्यार्यपुत्रेणेति । ( भगवदि जह तक्केमि परितोसिदह्मि अज्जउत्तेणेति । ) साङ्कृत्यायनी—वत्सराजपक्षपातिनी खल्वहं न किञ्चिदपि ब्रवीमि । राजा—शीघ्रं प्रवेशय तौ । प्रतीहारी—तथा । ( इति निष्क्रान्ता । ) ततः । ( ततः प्रविशति विजयसेनः कञ्चुकी च । ) विजयसेनः—भोः कञ्चुकिन् । अद्य स्वामिपादा द्रष्टव्या इति यत्सत्यमनुपमं कमपि सुखातिशयमनुभवामि ।
वृत्तम् ॥ ४ ॥ निर्दिष्टेत्यादि । हे भगवति साङ्कृत्यायनीमुद्दिश्यैतत् । अद्य श्वो वा मम बलैः तत्र तस्मिन् दुर्गे झटिति शीघ्रं सर्वतः विभग्ने विध्वस्ते त्वं कलिङ्ग- कलिङ्गराजमचिरादेव युद्धे बद्धं हतं वा श्रोष्यसि । कथम्भूतमित्याह । निर्दिष्टेनोपरिक्षिप्तेन आक्रान्तेन अभिद्रवेण मन्दं निर्गतार्हं । निर्दिष्टारकन्दमन्देति पाठे निर्दिष्टे य आक्रन्दो दारुणो रणः । आक्रन्दो दारुणे रणे इत्यमरः । प्रतिदिनं दिने दिने विरमन् क्षीयमाणं वीराणां दाशेराणां विक्रान्तानां च । भृत्ये दासेरदासो वा इत्यमरः । इत युद्धादिव्यापारो यस्य तम् । शश्वदजस्रं शीर्यमाणा ध्वस्यमाना द्विपा गजाः तुरगा नरा योधाश्च यस्मिंस्तत् निःशेषं क्षीणं निःशेषं बलं सैन्यं यस्य तम् । स्रग्धरा वृत्तम् ॥ ५ ॥ वत्सराजपक्षपातिनी एतेनेदं पक्षपातेनेत्यादि वासवदत्तावचनं मनसि कुर्वन्त्याः सोल्लुण्ठनोक्तिरियम् । १ ०क्रन्द०. २ सर्वतस्तं. ३ पारि.