प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 82, कुल 184 में से
संदर्भ में पढ़ेंकञ्चुकी—विजयसेने अवितथमेतत् । पश्य । सुखनिर्भरॊऽन्यथापि स्वामिनमवलोक्य भवति भृत्यजनः । किं पुनरखिलविघटननिर्व्यूढप्रभुनियोगभरः ॥ ६ ॥ उभौ—( उपसृत्य ।) जयतु जयतु स्वामी । ( राजा उभावपि परिष्वजते । ) कञ्चुकी—देव दिष्ट्या वर्धसे । हत्वा कलिङ्गहतकं दृढमस्त्स्वामी निवेशितो राज्ये । देवस्य समादेशो निर्व्यूढो विजयसेनेन ॥ ७ ॥ वासवदत्ता—अयि भगवति अभिजानास्येतं कञ्चुकिनम् । ( अइ भयवइ अभिजाणासि एदं कञ्चुइ । ) साङ्कृत्यायनी—कथं नाभिजानामि । ननु स एष यस्य हस्ते मातृष्वस्रा ते पत्रिश्र्मनुप्रेषितवती । राजा—साधु विजयसेनेन महाव्यापारोऽनुष्ठितः । ( विजयसेन पादयो पतति । ) राजा—देवि दिष्ट्या वर्धसे । प्रतिष्ठितो राज्ये दृढवर्मा । वासवदत्ता—( सहर्षम् ।) अनुगृहीतास्मि । ( अणुगहिदम्हि । ) विदूषकः—ईदृशेऽभ्युदयेऽस्मिनानुकूल एतत्करणीयम् । ( राजानं निर्दिश्य वीणावादन नाटयन् । ) गुरुपूजा । ( आत्मना यज्ञोपवीतं दर्शयन् । ) ब्राह्मणस्य सत्कारः । ( आरण्यिकां सूचयन् । ) सर्वबन्धनमोक्ष इति । ( ईरिसे अब्भुदए अस्मिं राअउले एदं करणिज्जं । गुरुपूजा । बह्मणस्स सक्कारो । सव्वबधणमोक्खोत्ति । ) राजा—( वासवदत्तामवलोक्य छोटिकां ददत् ।) साधु वयस्य साधु । अवितथं तथ्यम् । सुखेति । अन्यथापि मदप्रभुकार्यकरणमन्तरेपि स्वामिनमवलोक्य भृत्यजनः सुखेन निर्भर नितरां पूर्णो भवति । किं पुन अखिलस्य विघटननेन वमनेनेति यावत् निर्व्यूढः साध्यत्वान्नीतः प्रभोर्नियोगस्य निर्दिष्टकार्यस्य भारो येन सः । सुखनिर्भरो भवेदिति वक्तव्यमित्यर्थः ॥ ६ ॥ हत्वेति । विजयसेनेन कलिङ्गहतकं हत्वा अस्मत्स्वामी राज्ये निवेशितः प्रतिष्ठापितो हि। देवस्य समादश निर्व्यूढः सम्पादितः ननु ॥ ७ ॥ अभ्युदये इत्यत्रागादीनोपारेक्षायाम् । गुरुपूजा इत्यर्थिनिरदनम् सत्कारः । छोटिकां अङ्गुष्ठमध्यमयोगेनिति गन्धव्यजन्यो ध्वनिविशेषः । १ एतन्नास्ति पुस्तकान्तरे २ सोऽहम् अस्मत्स्वामिति निवेशिते ३ दृशाऽऽश्वास्य पत्र इत्यादिप्रमादिना ४ काष्ठ०-पुस्तके ५ महा० ६ प्रख्यातं जयतु आवुत्त (रेषु अन्य वुत्तो) इत्याधिक पुस्तकान्तरे