प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 83, कुल 184 में से
संदर्भ में पढ़ेंविदूषकः—भवति कथं त्वं न किमप्यत्र समादिशसि । ( होदि कहं तुमं ण किं वि एत्थ समादिससि । ) वासवदत्ता—( साङ्कृत्यायनीमवलोक्य सस्मितम् । ) मोचिता खलु हताशेनारण्यिका । ( मोहिदा क्खु हदसेण आरण्णिआ । ) साङ्कृत्यायनी—किं वा तपस्विन्यानया बद्धया । वासवदत्ता—यथा भगवत्यै रोचते । ( जह भअवदीए रोअदि । ) साङ्कृत्यायनी—यद्येवमहमेवं गत्वा तां मोचयिष्यामि । ( इति निष्क्रान्ता । ) कञ्चुकी—इदमपरं संदिष्टं महाराजेन दृढवर्मणा । त्वत्प्रसादा- त्सर्वमेव यथाभिलषितं संपन्नम् । तदेते प्राणास्त्वदीयाः । यथेष्टमिमान्वि- नियोक्तुं त्वमेव प्रमाणमिति । ( राजा सलज्जमधोमुखस्तिष्ठति । ) विजयसेनः—देव न शक्यमेव देवं प्रति प्रीतिविशेषं दृढव- र्मणः कथयितुम् । कञ्चुकी—यद्यपि तुभ्यं प्रतिपादितायाः प्रियदर्शिकाया अस्मद्दु- हितुः परिभ्रंशात्न मे संबन्धो जात इति दुःखमासीत्तथापि वासवदत्तायाः परिणेत्रापि त्वया तदपनीतमेव । वासवदत्ता—( सास्त्रम् । ) आर्य कञ्चुकिन् कथं मे भगिनी परिभ्रष्टा । ( अज्ज कञ्चुइ कहं मे भइणी परिब्भट्ठा । ) कञ्चुकी—राजपुत्रि तस्मिन्कलिङ्गहतकावस्कन्दे विद्रुतेष्वितस्त- तोऽन्तःपुरजनेषु दिष्ट्या दृष्टामिदानीं न युक्तमत्र स्थातुमिति तामहं गृहीत्वा वत्सराजान्तिकं प्रस्थितः । ततः संचिन्त्य तां विन्ध्यकेतोर्हस्ते निक्षिप्य निर्गतोऽस्मि । यावत्प्रतीपमागच्छामि तावत्कैरपि तत्स्थानं सह विन्ध्यकेतुना स्मर्तव्यतां नीतम् । प्रतिपादितायाः संकल्पितायाः । परिभ्रंशात्स्वहस्तस्खलनाद्विनाशाद्वा । कलिङ्गहतक- स्यावस्कन्दः अभिभवः तस्मिन् । दिष्ट्या सुदैवात् । संचिन्त्य कार्यगुरुतां विचार्य । प्रतीपमागच्छामि परावृत्तामि । १ मेव तामहम्मोचयिष्यामि, २ शक्यन्ते ॰प्रीतिविशेष॰.