भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 84, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 84

९४ प्रियदर्शिकायां राजा—( सस्मितम् । ) विजयसेन किं कथयसि । कञ्चुकी—सर्वत्र चान्विष्यता मया न प्राप्ता । तदाप्रभृति नाद्यापि विज्ञायते क्व वर्तत इति । ( प्रविश्य मनोरमा । ) मनोरमा—भट्टिनि प्राणसंशये वर्तते सा तपस्विनी । ( भट्ठिणी पाणसंसाए वट्टइ सा तवस्सिणी । ) वासवदत्ता—( साशङ्कम् । ) किं पुनस्त्वं प्रियदर्शनावृत्तान्तं जानासि । ( किं उन तुमं पिअदंसणाउत्तन्तं जाणासि । ) मनोरमा—न खल्वहं प्रियदर्शनावृत्तान्तं जानामि । एषा खल्वा- रण्यिका कल्प्यव्यपदेशेनानीतं विषं पीत्वा प्राणसंशये वर्तत इत्येवं मया निवेदितम् । तत्परित्रायतां भट्टिनी । ( रुदती पादयोः पतति । ) ( ण हु अहं पिअदंसणाउत्तन्तं जाणामि । एसा क्खु आरण्णिआ कल्लव्ववदेसेण आणीदं विसं पाउअ पाणसंसाए वट्टदित्ति एवं मए णिवेदितं । ता परित्ताअदु भट्ठिणी । ) वासवदत्ता—( स्वगतम् । ) हा धिक् हा धिक् । प्रियदर्शनादुःख- मपि मेऽन्तरितमारण्यिकावृत्तान्तेन । अतिदुर्मनः खलु लोकः । कदाचिन्मा- मन्यथा संभावयिष्यति । तदेतदत्र युक्तम् । ( प्रकाशं ससंभ्रमम् । ) मनोरमे लघ्विहैवानय ताम् । नागलोकाद्गृहीतविषविद्य आर्यपुत्रोऽत्र कुशलः । ( हद्धि हद्धि । पिअदंसणादुक्खं वि मे अन्तरिदं आरण्णिआउत्तन्तेण । अदिदुम्मणो क्खु लोओ । कदाइ मं अण्णहा संभावइस्यदि । ता एदं एत्थ जुत्तं । मनोरमे लहु इह एव्व आणेहि तं । णागलोआदो गहिदविसविज्जो अज्जउत्तो एत्थ कुसलो । ) ( निष्क्रान्ता मनोरमा । तत प्रविशति मनोरमया धृता तीव्रविषवेगमात्मानं नाटयन्त्यारण्यिका । ) आरण्यिका—हला मनोरमे कस्मादिदानीं मामन्धकारं प्रवेशयसि । ( हला मणोरमे कीस दाणि मं अन्धआरं पवेसेसि । ) मनोरमा—( सविषादम् । ) हा धिक् हा धिक् । दृष्टिरेप्यस्याः संक्रान्ता विषेणैव । ( वासवदत्तां दृष्ट्वा । ) भट्टिनि लघु परित्रायस्व लघु प्रियदर्शना प्रियदर्शिका । मनोरमावाक्ये सा तपस्विनी इत्यत्र सेत्यनेन कञ्चुकिप्रोक्ता राजकन्येव परामृष्टा इति मन्यमानाया उक्तिरियम् । कल्प्यव्यपदेशेन कल्प्ये प्रातराशे तस्य व्यपदेशेन विषेण यद्वा कल्प्या इति संस्कृतं तत्र कल्प्या मद्यम् । कल्यं प्रभाते हरीये स्यात्... । उपायवचनेऽपि स्यात्रिषु मद्येतु योषिति । इति मेदिनी । अन्यथा संभाव- यिष्यति अनयैव तस्यै विषं दत्तमिति तर्कयेत् । १ ततः २ ततः प्रविशति म०, ३ ०न्ता. ४ एतन्नास्ति क्वचित्, ५ दृष्टिरेवो आत्मानं ( दिट्टिएंवे अत्तन्नं )