पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 10, कुल 1267 में से
संदर्भ में पढ़ेंपर्यालोचनया बादरायणः द्वैती इति मम प्रतिभाति ॥ ( १३ ) व्यासः द्वैती चेत् भवतु, " तत्त्वमसि " इत्याद्यद्वैतप्रतिपा- दकवेदवाक्यानां का गतिः ? कुतः वेदे द्वैताद्वैतपरवाक्यानि सन्ति ? इति चेत्—वेदे द्वैताद्वैतपरवचनानि सन्तीति यत् तत्सत्यम् । तस्य कारणं वेदऋषीणां विचित्रबुद्धिरेव इति अहं मन्ये । कानि वाक्या- नि अस्माभिः अङ्गीकर्तव्यानि इति विषये वक्ष्यमाणभारतश्लोके उक्ता- त् उत्तरात् अन्यत् उत्तमं उत्तरं मम न प्रतीयते ॥ तथा च भारतश्लोकः— तर्कोऽप्रतिष्ठश्श्रुतयो विभिन्नाः नैको ऋषिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतस्स पन्थाः ॥ आरण्यपर्वणि एकादशोत्तरत्रिशततमे ( ३११ ) अध्याये पञ्चदशोत्तर- शततमः ( ११५ ) येथे यान्यान् पूज्यजनानिति मन्यन्ते तेषांतेषां तेते महाजनाः। अस्माकं भक्त्या वा क्रियया वा ज्ञानेन वा निष्ठया वा परमात्मनः कि- मपि प्रयोजनं नास्ति । यत्कार्यं निष्कापट्येन अस्माभिः क्रियते तदेव भगवत्प्रीतिकरं भवतीति निष्कपटनिरीश्वरवादिनोऽपि परमात्मा रक्षि- तुं समर्थ इति अहं मन्ये । ' मन एव मनुष्याणां कारणं बन्धमोक्षयोः ' इति वचने यथार्थमिति भासते ॥ ( १४ ) अस्य ग्रन्थस्य मुद्राङ्कनं बहूनां मित्राणां साहाय्येन आसी- त् । राजकार्यधुरन्धराः के. सि. एस्. ऐ. इति च बिरुदाङ्किताः महाराज श्री मैसूरु दिवान् शेषाद्रिअय्यर् ग्रन्थस्य मुद्राङ्कने ईप्सितं सर्वं सा- हाय्यं कार्यमिति मम प्रार्थनानुसारेण मैसूर् ग्रन्थशालाधिपतीन् वेद- शास्त्रसम्पन्नान् बि. ए. महादेवशास्त्रिणः तदपेक्षितं सर्वं कार्यमिति विश्वासपूर्वकं आज्ञापयामासुः । ते महादेवशास्त्रिणः ग्रन्थस्य मुद्रा- ङ्कने यद्यत्कार्यं आवश्यकं तत्सर्वं श्रद्धया जागरूकतया च अकुर्वन् । महाराजश्री रामचन्द्ररावु साहेब् इत्येतेषां, महाराजश्री आर्काट् श्री- निवासाचार्याणां च साहाय्येन मूलग्रन्थाः लब्धाः । मैसूरु कौन्सिल- र् महाराजश्री सि. ऐ. इ. कृष्णमूर्तिरावु महाराजश्री रामचन्द्ररावु