पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 9, कुल 1267 में से
संदर्भ में पढ़ेंश्रूयते, तादृशस्थलेषु भाष्यकाराः स्वस्वमतोपयुक्ताः श्रुतिस्मृतीः उ दाहरन्ति । मध्वाचार्यः वर्तमानकाले अनुपलभ्यमानान् अनेकान् श्रु त्यादीन् उदाहरति ॥ ( ११ ) पूर्वोक्तभाष्यकारैः वर्णितसिद्धान्तेषु मध्ये कस्सिद्धान्तः सूत्रकृद्बादरायणाभिप्रेत इति प्रथमं विचारः कर्त्तव्यः, योऽर्थः श्रुतिस्मृ त्यनुगुणः सोऽर्थः बादरायणाभिप्रेततया ज्ञातव्य इति पण्डिताः मन्य न्ते, यदि वेदव्याख्यातारः सूत्रव्याख्यातृभ्यः भिन्नाः सर्वैः प्रामाणिक त्वेन अभ्युपगताश्च तदा पण्डितैरुक्तो मार्गः युक्त एव, तथा नास्ति, वेदेषु परस्परविरुद्धार्थप्रतिपादकानि वाक्यानि सन्ति तेषां सूत्रभा ष्यकारा वा तच्छिष्या वा व्याख्यातारो वर्तन्ते, तेषां मतानुसारेण श्रु तिस्मृतीः अन्वयन्ति । यथा “सदेव सोम्येदमग्र आसीत्” ( छा. ६- २-१) इति श्रुतौ “अद्वितीयं” इति पदस्य वस्त्वन्तरशून्यत्वमर्थ इ ति शङ्करो मन्यते, तस्य पदस्य समाभ्यधिकराहित्यमेव अर्थ इति न सर्वबस्तुराहित्यमर्थ इति मध्वाचार्यो मन्यते । तस्यैव पदस्य अधिष्ठा त्रन्तरशून्यत्वमर्थ इति रामानुजो मन्यते । “ब्रह्मैव सन् ब्रह्माप्येति” ( बृ ४-४-६.) इति श्रुतेः ब्रह्मैव सन् ब्रह्म प्राप्नोति, ब्रह्मप्राप्तिश्च देहान्त रप्रतिसन्धानाभावमात्रमिति अर्थ इति शङ्कराचार्यः, ब्रह्मैव सन् = जी वभावमविहायेति यावत् ब्रह्म प्राप्नोतीति अर्थ इति मध्वाचार्यः, ब्रह्मै वसन् = आविर्भूतगुणाष्टकरूपब्रह्मरूपस्सन् ब्रह्माप्येति = परब्रह्मणि लीनो भवति, लयो नाम तद्विलक्ष्णत्वेन दर्शनाभावः इति रामानुजाचा र्यो मन्यते । अतः श्रुतिस्मृत्यनुसारेण अयमेव सूत्रार्थः बादरायणाभि प्रेत इति निश्चेतुं न शक्यते ॥ ( १२ ) तर्हि कथं निश्चेतव्य इति चेत्—सूत्रे काव्यरीत्या अक्लि ष्टकल्पनया च योऽर्थः प्रतीयते स एव बादरायणाभिप्रेत इति निर्णेत व्यः । एवं कचित् सूत्रे ( १-१-२.) ब्रह्मणः जगज्जन्मस्थितिलयकारण त्वं उक्तम् । कचित् सूत्रे ( १-१-२० ) जीवात् ब्रह्मणः भिन्नत्वं उक्तम् । कचित् सूत्रे ( २-३-३३.) कर्तृत्वमुक्तम् । क्वचित् सूत्रे ( ४-३-१०.) मर णानन्तरं जीवस्य लोकान्तरगमनमुक्तम् । क्वचित् सूत्रे ( १-१-७.) ब्र ह्मणः मोक्षदातृत्वमुक्तम् । कचित् सूत्रे ( ४-४-२३.) विष्णुलोकप्राप्त्यन न्तरं जीवानां पुनरावृत्तिर्नास्तीति उक्तम्। एकस्मिन् एव सूत्रे मायाश ब्दस्य प्रयोगो वर्तते । सोऽपि स्वप्नपदार्थविषय एव । इत्यादिसूत्रार्थे