पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1001, कुल 1267 में से
संदर्भ में पढ़ें९५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] ( ३१ ) सू—ॐ ॥ विहितत्वाच्चाश्रमकर्माऽपि ॥ ॐ ॥ ३२ ॥ न केवलं निषिद्धाकरणेन पूर्यते । कर्तव्यं च वर्णाश्र मविहितं कर्म । ( ३२ ) पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन् । यदात्मनस्तु नियतमानन्दोत्कर्षमाप्नुयात् ॥ इति कौषारवशभ्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ ३२ ॥ ( ३३ ) सू—ॐ ॥ सहकारित्वेन च ॥ ॐ ॥ ३३ ॥ नेति । वर्ततेत्यावर्तते । तथा च यः ' पूर्णज्ञानफलेच्छया ' पूर्णं यत् ज्ञानफलं तदिच्छया वर्तेत, तदिच्छुः सन् निषिद्धानि कर्माणि नानु वर्तेतेत्यर्थः । पाद्म इति । वचन इति शेषः । अस्याल्पफलत्वमित्यादि नाऽन्वयः ॥ ( ३१ ) ननु निषिद्धाचरणे फलह्रासादिबाधक सद्भावादस्तु ज्ञानि नो निषिद्धं वर्ज्यम्, न तु सत्कर्मकरणमावश्यकम् । न चैवं पूर्णफला सिद्धिः । ह्रासकारणाभावे ज्ञानादेव तत्सिद्धेरित्याशङ्कां परिहरत्सूत्र मुपन्यस्यति—विहितत्वादिति ॥ अत्र चशब्दः साध्यांशे कर्तव्यमित्य ध्याहृतपदेनाऽप्यन्वेतीत्याशयेन तं निषिद्धाकरणसमुच्चयार्थकतया व्याचष्टे—नेति । ' पूर्यते ' कर्मेति शेषः । पूर्णफलयुक्तो भवति पुरु ष इति वा । साध्यांशं व्याचष्टे—वर्णेति । वर्णेष्ववाश्रमेषु च कर्तव्यत या विहितमित्यर्थः । वर्णेत्यपिशब्दार्थोक्तिः ॥ ( ३२ ) कुत इत्यतो विहितत्वादिति हेतुं व्याख्याति--पश्यन्निति ॥ ‘ इमं ’ हृदयादिगतं परमात्मानं पश्यन्नपि, न केवलमपश्यन्नित्यपेरर्थः । ‘ अविचारयन् ’ असंशयानः कर्म कुर्यात् । कर्म किमित्यत आह--य दिति । ‘ आत्मनः ’ कर्तृजीवस्य ‘ सुनियतं ’ वर्णाश्रमोचितम् । फल माह--आनन्देति । येनेति शेषः । यद्वा--‘ यत् ’ यस्मादात्मनः ‘ सु नियतं योग्यमानन्दोत्कर्षमाप्नुयादित्यर्थः । विहितत्वाच्चेति । न के वलमानन्दातिशयार्थत्वादिति चार्थः । वक्ष्यमाणसहकारित्वसमुच्च यार्थो वा । सूत्रेऽनुक्तो वर्णधर्मः आश्रमधर्मेण सह किमिति भाष्यत इत्यत आह—अपिशब्द इति ॥ ( ३३ ) ननु विहितत्वेऽपि न सत्कर्म ज्ञानिना कार्यं फलाभावात् ।