पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1003, कुल 1267 में से
संदर्भ में पढ़ें९५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] उपासया कर्मभिश्च भक्त्या चानन्दचित्रता ॥ इति बृहत्तन्त्रे ॥ ( ३६ ) धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः । स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः ॥ इति च पाद्मे ॥ ३३ ॥ र्हि समुच्चयवादापत्तिर्दुर्वारा । न च मोक्षस्वरूपमात्रं ज्ञानमात्रसाध्यं, न तत्र कर्माऽपि कारणमिति न समुच्चय इति वाच्यम् । सम्पूर्णानन्द- प्राप्तिमन्तरेण मोक्षस्वरूपस्य पृथग्भावादित्यत आह—सर्वेति ॥ स्वा- नुबन्धिसर्वदुःखनिवृत्तिरित्यर्थः । उपलक्षणमेतत् । बहुतरानन्दानुभ- वश्चेत्यपि द्रष्टव्यम् । तथा च सर्वदुःखनिवृत्तिरूपो मोक्षो ज्ञानैकसा- ध्य इति न दोष इति भावः । ‘उपासया’ ज्ञानोत्तरकृतब्रह्मोपास- नेन ‘कर्मभिः’ निवृत्तकर्मभिः । आनन्दचित्रतेति । आनन्दानुभववै- चित्र्यमित्यर्थः । उपलक्षणमेतत् । समग्रानन्दव्यक्तिश्चेत्यपि द्रष्टव्यम्। केचित्तु—आनन्दस्य बहुत्वार्द्धिचित्रता तारतम्यं क्रमेण आनन्दवृद्धि- रित्यर्थ इत्याहुः ॥ ( ३६ ) यदुक्तमसत्प्रवृत्त्या आनन्दह्रास इति, न तद्युक्तम् । चतुर्मु- खादीनां पुत्रिकाकामाद्यसत्प्रवृत्त्या ह्रासाभावादित्यत आह—धर्मेति॥ शुभकर्मस्वरूपाणां विचित्रत्वादित्यर्थः । धर्मवैचित्र्यं तु यो देवादीनां धर्मः स मनुष्याणामधर्मः । योऽन्येषामधर्मः स देवादीनां धर्म इत्या- दिरूपमिति ध्येयम् । ‘देवमनोगतः’ देवमनोवृत्त्या कर्तव्यतया विष- यीकृतः , इतरेषामभावात् । तेषामेवायं विशेषः कथमित्यत आह-- न हीति ॥ ‘हि’ यस्मात् ‘एते’ देवाः ‘लोकसम्मिताः’ इतरजनसदृ- शा नेत्यर्थः । पाद्मे इति । निश्शङ्कं विवक्षितार्थोऽभिहित इति शेषः । इति च ब्रह्माण्ड इत्यारभ्य स्थिताश्चशब्दाः परस्परसमुच्चयार्थाः । ‘अबाधाच्च’ इत्यादिसूत्राणां ‘अचोदना चापवदति हि, शमदमाद्यु- पेतः स्यात् तथाऽपि तु तद्विधेः, अत एव चाग्नीन्धनादि’ इत्यादि- वचनैः पौनरुक्त्यपरिहारस्तु ‘अबाधाच्च’ इत्यादिसूत्राण्युदाहृत्योक्तमे- वार्थे प्रमाणान्तरैः प्रचुरतरं प्रपञ्चयतीति तत्त्वप्रदीप एवाभिहितः ॥४॥ ॥ इति स्तुत्यधिकरणम् ॥