पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1004, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ५. सू - ३४.] दीपिकासहितम्. १५७ ५. अधिकरणम् ॥ (१) सू—ॐ ॥ सर्वथाऽपि तु त एवोभयलिङ्गात् ॥ ॐ ॥ ३४ ॥ सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये । (२) 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽवि जिघत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः सोऽन्वेष्ट ५. अधिकरणम् ॥ (१) अत्राधिकरणे ब्रह्मज्ञानस्याधिकारिमात्राप्यत्वं वर्ण्यते । वेदानधिकारिणामवैष्णवानामपि वेदप्राप्तिदर्शनात् तद्वदनधिकारि भिरपि महाप्रयत्नेन ज्ञानमाप्तुं शक्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमु पन्यस्यति—सर्वथाऽपीति ॥ सूत्रे महाप्रयत्नमात्रमप्रयोजकमिति ज्ञाप नाय सर्वथाऽपीत्युक्तमिति भावेन तद्व्याचष्टे—सर्वेति । प्रकारः अङ्ग म् । उत्साहः प्रयत्नः श्रवणादिरूपः । इत्थंभूतलक्षणे तृतीया । साङ्ग श्रवणादिप्रयत्नेऽपीत्यर्थः । अपिः यद्यप्यर्थाऽपीत्यर्थे । त इति तच्छ ब्दपरामर्शनीयं दर्शयति—ये इति । ज्ञानं प्राप्नुवन्तीति शेषोक्तिः । योग्यता त्वनादिभूता तत्तत्फलप्राप्तिसाधनागन्तुकप्रयत्नाव्यतिरिक्ता कारणानागन्तुकस्वभावविशेषाख्या बोध्या । एवकारव्यावर्त्यमाह— नेति । अन्य इत्यनन्तरं प्रत्युत विपरीतज्ञानं तादृशफलं वेति शेषः । तेन सौत्रतुशब्दो व्याख्यातः । उक्तं हि तत्त्वप्रदीपे—अयोग्यः उत्सा हेनापि न ज्ञानं प्राप्नोति तुशब्दाद्विपर्ययं प्राप्नोति च । अमृतार्थं प्रयत मान इव राहुः शिरच्छेदमिति ॥ (२) एवं साध्यांशं व्याख्याय कुत इत्यतस्तद्धेतुत्वेनोभयलिङ्गा दित्यंशं सर्वथाऽपीत्यस्यात्राप्यन्वयमभिप्रेत्य व्याचष्टे-य आत्मेति ॥ इति श्रुत्येति । अभेदे तृतीया । एवंरूपश्रुत्यात्मको योऽयमाचार्योपदे शः चतुर्मुखकर्तृकोपदेशः तस्य इन्द्रविरोचनयोः समत्वेऽपीत्यर्थः । विरोचनो नामासुरः । विपरीतज्ञानमिति । चक्षुष प्रतीयमानप्रतिबि म्ब एव अपहत पाप्मत्वादिलक्षणात्मेति विपरीतज्ञानमित्यर्थः । साव धारणमेतत् । न तु सम्यग्ज्ञानमित्यवधारणार्थः । इन्द्र इति च साव धारणम् । न तु विरोचन इत्यवधारणार्थः । सम्यग्ज्ञानमिति । आपे त्यनुषज्यते । इत्युभयविधलिङ्गादिति । इत्येवंरूपमिन्द्रविरोचनयोः स म्यग्ज्ञानप्राप्त्यप्राप्तिरूपं यत् उभयेषां योग्यायोग्यजनानां सम्यग्ज्ञान